________________
योगार्तिकम् ।
४५ 'सदैवत' 'सोकामयत' 'तदात्मानं स्वयमकुरुत' ‘स एको ब्रह्मण आनन्द' इति श्रुत्यायुक्तस्य आनन्दान्तस्य ब्रह्मणि स्वतोनुपपतिश्च । साक्षी घेता केवलो निर्गुणश्चेत्यादिश्रुतिभिरीश्वरस्य निर्गुणचिन्मात्रत्वसिरिति । सनिमित्तकः सप्रमाणकः । उत्तरं, तस्य शास्त्रं निमित्तमिति । शास्त्रं श्रुति. स्मृतीतिहासपुराणानि । पुनः पृच्छति । शास्त्र पुरिति । शास्त्रस्यैव प्रामाण्यं कुत इत्यर्थः । उत्तरं, प्रकृष्टसवानिमित्त इति । ईश्वरस्योपाधिर्यत्मकृष्टसत्त्वं तत्प्रत्यक्षरूपवाक्यार्थज्ञानजन्यत्वाच्छास्त्रस्य प्रामाण्यामित्यर्थः । नन्वेवमन्योन्याश्रयः शास्त्रप्रामाण्ये सिद्धे प्रकृष्टसत्त्वसिद्धिः तत्सिद्धा च तन्मूलकतया शास्त्रप्रामाण्यसिद्धिरिति चेत्र । मन्त्रायुर्वेदप्रामाण्यत ईश्वरसिद्धः प्रागेव शास्त्रस्य प्रामाण्यसिद्धेः प्रकृष्टसत्त्वस्य च शास्त्रप्रामाण्यनिवाहकतामात्रमत्रोक्तमिति । तथा च न्यायसूत्रं मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्य मिति । एतयोरिति । विषयत्वेन समवायसंबन्धेन च परमेश्वरसत्त्वे वर्तमानयोरेतयोः शास्त्रोत्कर्षयोरनादिनिमित्तनैमित्तिकभावः संबन्धः शास्त्रं नैमित्तिकं सत्त्वाकर्षश्च निमित्तं कारणत्वादित्यर्थः । ततः किमित्याकाकायामाह । तस्मादिति । सदैवेश्वर: प्रलयेपि जानेच्छा. तिमान सदैव मुक्तो ऽनादिकाले क्लेशादिमुक्तश्चेत्यर्थः । ईश्वरस्याद्वितीय. त्वपि प्रतिपादर्यात । तच्चेति । नास्ति साम्यतिशयश्च यस्मात तादृ. शमित्यर्थः । अतिशनिर्मुक्ती हेतुमाह । न तादिति । उक्त हेतुमाह । यदेवेति । यस्माद्वेतार्यदेवातिय निरतिशयं तदेव तत ऐश्वयं स्यादिति योजना। सातिशयत्वे सत्यैश्वर्यमेव न भवति अप्रतिहतेच्छत्वस्यैषाभावात् । प्रतो यदेव निरतिशय तदेव मुख्यमैश्वर्यमित्यर्थः । उपसंहरति । तस्मादिति । ऐश्वर्यण यत्र काष्ठा प्राप्यते स ईश्वर इत्यर्थः। साम्यनिर्मुक्ती हेतु. माह । न चेति । द्वयोरिति । नवमल्पकालस्थायि पुराणं दीर्घकालस्थायि । एवमस्त्वित्येवंरूपेणैकस्मिवर्थ क्क चिट्ठाभ्यां तुल्याभिमताभ्यां कामिते सति एकस्य सिद्धा संकसिदावितरस्येच्छाविधातादूनत्वं न्यनत्वं स्या.
तो न समानानेकेश्वरसंभव इत्यर्थः । ननभयोः संकल्पाववत्वं पुराणत्वं वाभयमेव भवतु सबाह । द्वयोश्चेति । तस्य पुरुषविशेषत्वमुपसंहरति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org