________________
४४
योगवार्तिकम्। धाच्च । किं चैत त्तमो वा रदमेकमास तत्पर स्यात तत्परणेरितं विषयत्वं प्रयाती'त्यादिश्रुतिष्वेव परमेश्वरप्रयत्नेनैव गुणवैषम्य श्रयते, तथा।
प्रतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ।।
इत्यादिना प्रकृतेर्वैषम्यहेतुः भोपीश्वरेच्छात एव । स्मर्यते च, अतः साम्यावस्थायामप्यगत्येश्वरोपाधेानादि स्वीकार्यमिति । अपि च एवं सति प्रलये स्वसंकल्पेन स्वोपाधिं स्वस्माद्वियोज्येश्वरः शेते पूर्वसर्गीय. संकल्पसंस्काराभ्यां च सादावुपाधिरीश्वरेण सह स्वयं संयुज्यते इत्य. भ्युपेयं, तच्चायुक्तं तस्य हेतुवियेत्यागामिसूत्रेणाविझाया बुद्धिपुरुषसंयोगहेतुत्ववचनेनेश्वरस्याविद्वत्त्वापत्तेः । न चाहार्यज्ञानरूपोविदाया संयोगः स्यात् सा चाविया मायेति न कस्याः क्लेशत्वमिति वाच्यम् । संयोगहेत्वविद्याया विवेकख्यातिनाश्यत्वबोधकसूत्रविरोधात । किं च सूजकारण
केशकर्मविपाकाहासनाभिस्तथैव च । अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ॥
इति योगियाज्ञवल्क्यादिभिश्चेश्वरोपाधौ संस्कारस्य प्रतिषिद्धत्वात सदभ्युपगमो ऽपि तेषामपसिद्धान्त एव, तथा आगामिसूत्रप्रतिषिद्धं काला. वच्छिन्नत्वं चेशे स्यात् उपाधिवृत्त्यभावेनैव चेतनस्य कालानर्वाच्छचत्वात इत्यादीन्यत्र दूषणानि सन्ति, तस्मात् प्रलये निरुढोप्युपाधिः पूर्वसर्गीयसंकल्पवासनाभ्यां स्वयं व्युत्थितो भवतीति यच्छास्त्रं तदैनंदिनप्रलये योगनिद्रया शयानस्य स्वयंभारुपाधिपरमेव न परमेश्वरोपाधिपरमिति दिक् । शास्त्रप्रामासिद्धी शास्त्रायथोक्तेश्वरसिदिरीश्वरसिद्धा चैतत्प्रत्यक्षपूर्वक तया शास्त्रप्रामायसिद्धिरित्यन्योन्याश्रयं मन्वानो नास्तिक ईश्वर प्रमाण मस्ति न वेति पृच्छति । योसाविति । सर्वपुरुषाणां स्वत एकरूपतयैश्वर्यमुपाधिधर्म एवेति प्रतिपादयितुं प्रकृष्टसत्त्वोपादानादित्युक्तं, प्रकृष्टसत्त्वसंबन्धात्तदोपाधिकः शाश्वतिको नित्य उत्कर्ष ऐश्वर्यमित्यर्थः । ईश्वरस्य चोपाधी प्रमाणं 'कार्यापाधिरयं जीवः कारणोपाधिरीवर' इति श्रत्यादयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org