________________
४३
योगार्तिकम् । तु क्लेशादिपरामर्शशून्याः, ईश्वरस्तु सर्वदैव क्लेशात्मकबन्धनत्रयशन्यतया श्रुत्यादिसिद्ध इत्यर्थः । ईश्वरस्य सदा क्लेशादिशन्यत्वे मानं
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः । कर्मात्मा पुरुषो ये से मोतबन्धः स युज्यते ॥
इत्यादिवाक्यशतानि । निर्गुणो गुणाभिमानशून्यः गीतायां गुणा. भिमानशन्यतयैव गुणातीतत्ववचनात्। 'परस्तु निर्गुणः प्रोक्तो यहंकारयुतो ऽपर' इति नारदीयादिष्वपि ईश्वरजीवयोरिच्छादिसाम्यपि तदनभिमानाभिमानाभ्यां निर्गुणसगुणत्वसिद्धेश्च । बन्धनत्रयं चोक्तं सांख्ये, प्रकृतिलयानां प्राकृतिको बन्धः । विदेहानां वैकारिको बन्धः । दिव्यादिविषयभाजां दक्षिणाबन्ध ति । तत्रानो ऽष्टप्रतिभिमानरूपः । द्वितीयः शब्दा. दिविषयरागः। तृतीयो गृहस्थानां कर्मदक्षिणादानाध्ययनादिष्वनुरागः । तथा चोक्तम् 'प्रकृतेर्वत बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्त्तत' इति । ईश्वरस्य खुद्रेश्वरेभ्यो वैलक्षण्यं बन्धापरामर्षरूपं विश्णाति । यथा मुक्तस्येति । निरस्ताविास्येत्यर्थः । प्रजायते निश्चीयते संभाव्यतइति प्रकृतिलीनस्याभिमानसंबन्धेन पश्चाद्वन्धसंभा. वति भावः । सदैव मुक्त इति । दुःखशन्य इत्यर्थः । सदैवेश्वरति । सदैवाप्रतिहतेच्छया युक्तः । अत्र के चित् सदैवेश्वर ऐश्वरक्तिमानित्यर्थः । नहि वेदान्तिभिरिव प्रलये योगैरपि ईश्वरस्य नियमिच्छादिकमभ्युपगन्तुं शक्यते प्रकृतेर्गुणमाम्यरूपत्वाभ्युपगमविरोधात इत्येकदेशिनः । तव । यतो 'नैवाहस्तस्य न निशा नित्यस्य परमात्मन' इत्यादिवाक्यशतैरीश्वरसत्त्वस्य नित्यमेव जानेच्छादिकं यथाश्रुतभाष्यानुरोधाच्च विसदृशपरिणामाभावरूपाच्च साम्यावस्यानिच्छेत्यादिनित्यसत्त्वव्यक्तिसत्त्वेप्युपपध्यतति स्वकार्याकरणमेव च तस्य द्विपरान्तिलय दति, किंबहुना 'आत्मा वा इद मेक एवायासीनान्यत् किं चन मिदिति श्रुत्या प्राग्लये परमात्मनार्थद्रष्टुत्वंसिद्धमत ईश्वरोपाधेजानलक्षणा वृत्तिः प्रलयेयस्ति न चोपाधित्तिं विनैवेशस्य ज्ञातृत्वमेष्टव्यं बाधकं विना दृष्टानुसारत्यागानौचित्यात् । ज्ञानतिरहं पर्रोत प्रकृयभिमानिदेवतावाक्यविरो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org