________________
82
योगवार्तिकम् ।
धारत्वे दृष्टान्तमाह । यथेति । तथा च राजा जयी पुरुषो धनीत्यादिवदेव पुरुष: क्लेशादिमान् सुखी दुःखी मूठ इत्यादिविद्वद्वा: हार इति भावः । समवायसंबन्धेन पुरुषे सुखादिमत्त्वबुद्धिरेवाविदोति । एवं च सत्त्वाख्येन क्लेशसंपर्केण शून्यता नान्य पुरुषेस्ति किं त्वीश्वरस्वेत्याह । यो झनेनेति । अनेन भोगेन क्लेशादिफलभोगेनेत्यर्थः । अत्रानेनेति विशेषणादीश्वरस्य - भोगोतीत्यवधार्यते । सर्वविवेकग्रहणे सत्येव स्वोपाधिसुखसाक्षितामात्रं चिदवसानो भोग इति सांख्यसूत्रात् । तथा च उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः ॥
इति गीतायुक्तः परमेश्वरे भोग उपपद्यतइति । अत एवेश्वरस्यापि भोगप्रतिपादिका चतं पिबन्ताविति श्रुतिः यथाश्रुतैवोपपद्यते । ननवन्यो अभिचाकशीतिति श्रुतिस्तु मुख्यमेव भागं प्रतिषेधति, मुख्यभोगस्वाभिमानपूर्वकः सुखायनुभवः, लेकैिस्तत्रैव भोगव्यवहारात् सन्वपुरुषथेोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोग इत्यागामिसूत्रेण तस्यैव लक्षयितव्यत्वात् । अथ वा जीवभेोग्यदुःखादिभोक्तृत्वमेवानश्रचितिवाक्येन प्रतिषिध्यते । एकशरीरस्यत्वेन तद्बोगस्यैव प्रसक्तत्वादिति जीवन्मुक्तस्यापीश्वरसदृश एव भोगो दुःखभोगमात्र मीश्वरः द्विलक्षणमिति । अपरामृष्टत्वं परामर्षशून्यता, तत्र परामर्षशब्दफलं प्रतिपादयितुं शङ्कते । कैवल्य| मिति । यदि क्लेशादिशून्य ईश्वरः श्रुतिस्मृतिभ्य एष्टव्यस्तर्हि कैवल्यं ज्ञानं प्राप्ता बहवो हिरण्यगर्भाय केवलिनः केवलानां जीवन्मुक्तानामध्यता: क्लेशादिशून्याः सन्ति तएवेश्वरतया श्रुत्यर्थः सन्त्विति पूर्वपक्षिणो भावः । तथा च सांख्य सूत्रं 'मुक्तात्मनः प्रशंसासिद्धस्य वे 'ति । "आदयस्तु माता ज्ञानेन द्वितीयो रागसंतयात् । कृतयात्ततीयस्तु व्याख्यातं मोक्षलक्षणम्” इतिपञ्चशिवाचार्य धृतवाक्ये च ज्ञानस्यापि कैवल्यमोत्तादिशब्दार्थत्वात् हिरण्यगभादयोपि केवल्यमुक्त्यादिमन्त उच्यन्ते । केवलिनइतिपाठे केवलस्यायमिति केवलो ऽत्र द्वितीयमोतो रागादिक्केशशून्यतेति । परिहरति । ते हीति । ते हि हिरण्यगर्भादयः प्राकृतिकानि बन्धनानि पूर्वस्थितानि द्वित्वैव मुक्ताः न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org