________________
योगवार्तिकम् ।
४१ नेश्वरत्वानीश्वरतयोः स्वतो ऽसंभवात् । नहि वैशेषिकादिवत नित्ये च्छादिमान स्वत एवेश्वरस्त्वयाप्यभ्युपगम्यते । औपाधिकत्वे तूपाधिमुक्त्या पुरुषाख्यजीवानामेवैश्वयंमस्तु तत्परत्वेनैव श्रुतिस्मृत्युपपत्तेः । अतः प्रधानजीवातिरिक्त ईश्वरो नास्तीति सांख्यातेपनिरासक्रतयोत्तरसूत्रमवतारयति । अथ प्रधानेति । क इत्यातेपे । अथ वा प्रकृतिपुरुषातिरिक्त. स्येश्वरस्य किं लक्षमिति प्रश्नेन लक्षणसूत्रमुत्यापर्यात । अथ प्रधानेति ॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
पुरुषविशेष एवेश्वरः, तथा चेश्वरस्य पुरुषन्तर्भावस्तदुपाधेः प्रधानइति भावः । यच्चोक्तं सिद्धजीवमादायेश्वरप्रतिपादकश्रुतिस्मृत्योरुपपत्तिरिति निराकरणार्थमपरामृष्ट इत्यन्तं विशेषणम् । क्लेशादापरामृष्टतया श्रतिस्मतिगीत ईश्वरो न सिद्धजीवो भवितुमर्हति कादाचित्कलेशादिसं. बन्धादित्यर्थः । अपरामृष्टान्तं विशेषणं व्याचष्टे । अवियादय इति । अवियाऽस्मितारागद्वेषाभिनिवेशाः क्लेशा इति धात । कुशलाकुशलसा. धनत्वात कुशलाकुशलानि धर्माधर्माः तयोः क्लेशकर्मणोः फलं विपाकः स च जात्यायुभीगाः । भोगश्चात्र विषयसत्त्वादिभिश्चित्तपोषणं शब्दाया. कारवृत्तिर्वा न तु सुखादानुभवः, ते च मनसि वर्तमाना इति वयमा. णात्स हि तत्फलस्य भोक्तत्यनेन विपाकफलयोः सुखदुःखयो गस्य पुरुषे पत्यमाणत्वाच्चेति । चित्तभूमौ शेरते इत्याशया वासनास्ताश्च विपाका. नुगुणाः.तत्कारणानि, यतस्तत्तच्छरीरसाध्यभोगवासनामुढाध्यैव कर्मणा विपाको दीयते इति । ननु क्लेशाापरामृष्टत्वं सर्वपुरुषसाधारणमित्याशं. शाह । ते च मनसीति । एकस्यैवान्तःकरणस्य त्तिभेदाच्चातुर्विमित्याशयेन पूर्व चेतम्युक्ता अविदयात्र मनस्युक्तेति बोध्यम् । तथा चायमर्थः। ते चाविदयादयो यद्यपि मनस्येव सन्ति न कुत्रापि पुरुषे तथापि पुरुषे सांसारिके व्यपदिश्यन्तति । व्यपदेशबीजं च स्वामित्वापरनामकं भोक्तत्वमित्याह । स हीति। हि यस्मात् स पुरुषस्तस्य क्लेशादेः फलस्य सुखदुःखयोः स्वस्मिन्मतिबिम्बितयोभोक्ता भवतीत्यर्थः । स्वामित्वसंबन्धेना.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org