________________
योगवार्तिकम् ।
तच जीवात्मप्रज्ञान्तस्योपायस्याधिमात्र तीव्र संवेगत्वे सत्येवासवतमो ऽसंप्रज्ञातो भवति । परमात्मप्रज्ञान्तस्यापायस्य तु अधिमात्र तीव्र संवेगत्वाभाघेषि आसत्रतमो ऽसंप्रज्ञातो भवतीति । एवं च सति मुख्यकल्पानुकल्पभेदेन परमात्म जीवात्मप्रज्ञय । योगमोत्तहेतुत्वं बोध्यम् । उभयप्रज्ञयेोरेव देहात्प्रभिभाननिवर्त्तकत्वेन परवेराग्यद्वारकत्व साम्येपि अतितीव्राभ्यासं विनापि परमात्मप्रज्ञाया आसत्रतमयोगहेतुतया श्रेष्ठयात् । ' ततः प्रत्यक्चेसनाधिगमोप्यन्तरायाभावश्चे' त्यागामिसूत्रेणाधिकद्वारकीर्त्तनात् । अत एव श्रुतिस्मृतीतिहासादिषु प्रायशो ब्रह्मज्ञानमेव मोक्षहेतुतयेोपदिश्यते कदा चिदेव तु स्वातन्त्र्येण जीवतत्त्वज्ञानमिति । यदि च उभयोरेव तुल्यवद्विकल्पः स्यातर्हि " तमेव विदित्वातिमृत्युमेति नान्यः पन्या विद्यते ऽयनाथ" "तमेवैकं जानथ श्रात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतु". रित्यादिश्रुतयो व्याकुप्येरन् । तथा
स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपा प्रकटस्वरूपः । सर्वेश्वरः सर्वविशेषवेत्ता समस्तशक्तिः परमेश्वरात्मा ॥ प्रज्ञायते येन उदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । दृश्यते वायवगम्यते वा तज्ज्ञानमज्ञानमते । न्यदुक्तम् ॥ इत्यादिस्मृतयेोपि वाकुप्येरन् । मुख्यकल्पत्वे तु राजमार्ग एव मम इति वाक्यवत् तादृशवाक्यानां मुख्य साधन परतयेोपपत्तिरिति दिक् । ननु start श्रासतमयोगोत्पादनार्थमभ्यासस्यातितीव्र त्वमपेक्षते ईश्वरप्रज्ञा तु वापेक्षते इत्यच का युक्तिरित्याकाङ्कायामाह । प्रणिधानादित्यादि । ब्रह्मात्मना चिन्तनरूपतया प्रेमलक्षणभक्तिरूपाद्वक्ष्यमाणात्प्रणिधानादावर्जिताभिमुखीकृत ईश्वरस्तं ध्यायिनमभिध्यानमात्रेण अस्य समाधिमोत्ता श्रासतमै भवेतामितीच्छामात्रेण रोगाशक्त्यादिभिरुपायानुष्ठानमान्दोप्यनुखातिश्रानुकूल्यं भजते प्रतस्तस्मादभिध्यानादपि प्रणिधाननिष्पत्त्याद्विद्वारा योगिनामासतमा समाधिमाता भवत इत्यर्थः । ननु प्रधानपुरुषातिरिक्तं तत्त्वं नास्तीति त्वयाप्यभ्युपगम्यते तत्र चेश्वरो न प्रधानं चेतनत्व | व्यभ्युपगमात् । नापि पुरुषः, सर्वेषां पुरुषाणां चिन्मात्रस्वरूपत्वे
80.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org