________________
योगवार्तिकम् । च्चेति । तथा मध्यति । मृदुसंवेगत्वादिरूपैस्विविध इत्यर्थः । तथाधिमात्रोपाय इति । अधिकप्रमाणकोपायोपि मृदसंवेगवादिरूपैस्विविध इत्यर्थः । तत्र तेषु नवसु मध्ये, सूत्रेण सहान्वयः ॥
अधिमाचौपायानां तीव्रसंवेगानामासन्नः ॥ २१॥
नवयोगिमध्ये चरमाणामेवासत्रों ऽसंप्रजातो भवतीत्यर्थः । समा. धिलाभः, तनिष्पत्तिः । न केवलं समाधिरासत्रो ऽपि तु मोक्षोपीत्याह । समाधिफलं चेति । 'विनिष्पचसमाधिस्तु मुक्तिं तत्रैव जन्मनि' इत्यादिवि.
पुराणादिभ्य इति भावः । अत्र कश्चित् अधिमानोपायानामिति सूत्रमध्ये न प्रवेशति । तव । तथा सति संवेगस्य विधा विभागेनैव सूत्रोपपत्ता भाष्ये नवधा विभागप्रदर्शनवैयापत्तेः ॥
मृदमध्याधिमाचत्वात्ततोपि विशेषः ॥ २२॥
पूर्वसूत्रोविशिष्टेन्तर्गतस्य तीव्रत्वस्य मृदुमध्याधिमात्रत्वेन त्रैवि. ध्यात्ततोप्यासत्रापि विशेषस्तरतमरूपो भवति । पूर्वसूत्रोक्तस्य नवमयोगिन इत्यर्थः। एतदेव ध्याचष्टे ततोपि विशेष इत्यन्तेन भाष्येण । ोलतार्थमाह । तद्विशेषादपीति । तस्माद्विशेषादपि नवमस्य त्रिविधस्यान्तिमानामासवतम इत्यर्थः । अपिशब्द अागामिसत्रस्थसाधनापेक्षया । अत्र तीवाधिमात्रसंवेगस्येत्यपपाठः । अधिमानतीव्र इत्युक्तभाष्यतोधिमानतीव्रसंवेगस्येत्येव पाठादिति । सूत्रान्तरमवतारयितुं पृ. च्छति । किमेतस्मादेर्वोत । किमेतस्मादेव तीव्रसंवेगस्याधिमात्रत्वादेवा. सत्रतमः समाधिर्भवतीत्यादिरर्थः । न वेति वैकल्पिकावार्थः । विकल्प मेव सिद्धान्तर्यात सूत्रेण ॥
ईश्वरप्रणिधानाहा ॥ २३ ॥ विशेष इत्यनेनान्वयः । प्रणिधानमत्र न द्वितीयपादवत्यमाणं किं तु असंप्रजातकारणीभूतसमाधिर्भावनाविशेष एव । तज्जपस्तदर्थभावनमित्यागामिसूत्रेणैवात्मप्रणिधानस्यात्र लक्षणीयत्वात् । तथा च सूत्रद्वयस्यायमर्थः । प्रज्ञान्तो यो योगोपायो जीवात्मपरमात्मसाधारविषयक उक्तः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org