________________
योगवार्तिकम् । पार्थत्वाच्च इन्द्रियायपासकानामिन्द्रियादाभिमानिसूर्यादिपदप्राप्तेरेवा. न्यत्र फलवत्त्वश्रवणाच्चेति ॥ __ उपायप्रत्ययमसंप्रज्ञातं तदधिकारिणं चाह । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
दूतरेषां विदेहप्रकृतिलयातिरिक्तानां देवानां वा मनुष्यादीनां वा न जन्ममात्रादसंप्रज्ञातो भवति किं तु श्रादिभ्यः १ प्रजापर्यन्तेभ्य इत्यर्थः । संक्षेपतः सूत्रवाक्यार्थमाह । उपाति । उपायः २ श्रद्धादिः। श्रद्धादीन् पञ्च क्रमेण व्यावष्टे । श्रद्धा चेतस इत्यादिना । संप्रसादः प्रीतिः योगो मे भूयादिभिलाषा । सा च समर्था मातेव योगिनं पाति प्रतिबन्धसहसाणि तिरस्कृत्य रक्षति, यथा योगभङ्गो न भवतीत्यर्थः । श्रद्धातश्च घीयं भवतीत्याह । तस्य हीति । श्रद्वधानस्य विवेके जीवेश्वरान्यतरपु. रुषतत्त्वज्ञाने योगसाधने ऽर्थितया वीर्य प्रयत्नो धारणारूपो भवतीत्यर्थः । समुपजातेति। वीर्यतश्च स्मृतिर्धानं ततश्च समाधिर्योगस्य चरमाङ्गं भवति। तदेवं श्रद्धामूलकाद्वारणायन्तरङ्गत्रयात्संप्रज्ञातयोगे जायमाने प्रज्ञा जीवनसान्यतरात्मतत्त्वसाक्षात्काररूपो विवेक उपावर्त्तते उपजायते येन विवे. केन यथार्थ वस्तु जानाति विषयीकरोति विद्वानित्यर्थः । तदेवं श्रद्धादीन व्याख्याय तत्पर्वकत्वमसंप्रज्ञातस्य व्याचष्टे । तदभ्यासादिति । प्रज्ञाया अभ्यासातत्सिया तद्विषयकादपि विरामप्रत्ययरूपादलंबुयाख्याद्वैराग्यादसंप्रज्ञातो भवतीति सत्रार्थः । आसवसमाधिसिद्धा त्वतिशयेनोपायानुष्ठानं हेतुरिति सूत्रद्वयेन प्रतिपादनीयं, तयोरादिसूत्रमवतारयितुमुपक्रमते । ते खल्विति । उपायः श्रादिः । तस्य मृदुत्वमल्पता, मध्त्वं प्रसिद्धमेव, अधिमात्रत्वमतिप्रमाणता अतियितत्वमिति यावत् । संवेगश्चौपायानुष्ठाने शैघ्यम् । कश्चित्तु संवेगो वैराग्यमिति व्याचष्टे । तत्र । योगिनो नवधात्वानुपपत्तेः । उपायकार्यतया वैराग्यस्योपायमृदुत्वादिकं विहाय स्वातन्त्र्येण मृदुत्वादासंभवात् संवेगशब्दस्य वैराग्यवाचकत्वाभावा
१ पञ्चभ्य इत्यधिकं पुस्तकान्तरे । २ उपायान श्रद्धादीन पञ्चेतिपाठान्तरम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org