________________
योगवार्तिकम् । भवो जन्म तदेव प्रत्ययः कारणं यस्येति विग्रहः । विदेहप्रकृतिलयानामिति विभज्य व्याचष्टे । विदेहानामिति । शरीरनैरपेक्ष्येण बुद्धि वृत्तिमतो विदेहा इति विभूतिपादे स्पष्टीभविति । ते च महदादयो देवास्तेषां साधनानुष्ठानं विनैवासंप्रजातयोगो जन्ममानिमित्तको भवति योनिसाद्गुण्येनौत्पत्तिकज्ञानात । ते हि दैनन्दिनप्रलये कदा चिच्च सर्ग. कालेपि स्वसंस्कारमात्रोपगतेन चित्तेन संस्कारशेषेण निरोधावस्थेन चित्तेन कैवल्यपदमिव प्राप्नुवन्तो व्युत्थानकाले च स्वसंस्कारस्य देवभाव. प्रापकसंस्कारस्य विपाकं फलमैश्वयं भोगं प्रारब्धकर्मयन्त्रिता अतिवाहयन्ति अतिक्रान्ति ततो मुच्यन्तइति शेषः । तथा च प्रकृतिलया इति । ईश्वरो. पासनया प्रकृतिदेवतोपासनया वा ये ब्रह्माण्डं सावरणं त्यक्त्वा लिङ्गशरीरेण सह प्रकृत्यावरणे गताः तेत्र प्रकृतिलीनाः तेपि च असमाप्तकार्य चेतसि स्वेच्छयैव प्रकृतिलीने संस्कारशेषे सति असंप्रज्ञातयोगे कैवल्यपदमिव प्राप्नुवन्ति यावदधिकारशेषवशात चित्तं पुनर्व्यत्थितं न भवति तस्यापि भवप्रत्यय इतिशेषः। अधिकारसमाप्तौ च तेपि मुच्यन्तइत्याशयः । के चित्तु भवत्यस्यामिति भवो ऽविद्या, तथा चेदं सत्रमिन्द्रियादिप्रकृत्यन्त. चिन्तकानावियाकारणकमसंप्रज्ञातं वदन्तीत्याहुः। तत्र । परवैराग्यस्यासंज्ञातहेतुतया तस्याविदुष्य संभवात् । यच्च वायुपुराणे
दश मन्वन्तराणीह तिष्ठन्तीद्रियचिन्तकाः । भौतिकाश्च शतं पूर्ण सहस्रं त्वाभिमानिकाः ॥ बौदा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥ निर्गुणं पुरुषं प्राप्य कालसंख्या न विद्यते ।
इति वाक्यं, तद् इन्द्रियायुपासकानामनुत्पत्रज्ञानानां कर्मदेवानां तत्सत्पदावस्थितिकालमेव परिच्छित्ति न तु तेषामसंप्रजातसमाधि. कालान देहायभावेन वृत्त्यभावकालान् वा इन्द्रियादिचिन्तामात्रेणासंग्रजातानुपपत्तेः कृत्यभावस्य कादाचित्वस्य प्रलयमरणादितुल्यत्वेनापुरु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org