________________
酸
योगवार्तिकम् ।
कथं न भवति संप्रज्ञातइवेत्याकाङ्क्षायामाह । सालम्बन इति । पुरुषपर्यन्तं कस्मिन्राण्यालम्बने चित्तस्यैकायतारूपो ऽभ्यासेो नासंप्रज्ञातस्य साक्षात्साधको भवति श्रालम्बनवृत्त्यविरोधित्वात् । अतः पुरुषख्यातिपर्यन्तास्वखिलवृत्तिषु अलंबुद्धिरूपो विरामप्रत्ययः परवैराग्याख्य एवासंप्रज्ञातेन साधनतयालम्बनीक्रियते श्रीयते । स यतो निर्वस्तुको नास्ति वस्तु चिन्तनीयं यत्रेत्यर्थः । ननु तस्य निर्वस्तुकत्वं कथं तदाश्रयणे हेतुस्तत्राह । सर्वार्थशून्य इति । सोप्यसंप्रज्ञाता ध्येयार्थशून्यः अतो खिलध्येयवैराग्यमेव तत्र हेतुर्युक्त इत्यर्थः । सूत्रस्य फलितार्थ - माह । तदभ्यासेति । कृतवैराग्याभ्यासं चित्तं निरालम्बनं निर्विषयमभावप्राप्तमिव वृत्तिरूप कार्यकरणात् मृतकवद्भवति इत्येषोवस्याविशेष इत्यादेरयमर्थः * । निर्बीज इति । संस्कारद्वारा जन्म बीजं ज्ञानकर्म तच्छून्यावस्येत्यर्थः । संस्काराख्यसंसारबीजेोन्मूलक इति वार्थः । असंप्रज्ञातस्यापि निमित्तभेदात् द्वैविध्यं सूत्राभ्यां सूत्रकारो वक्ष्यति । तदेव द्वैविध्यं युक्तिसिद्धेन पूर्वाचार्य क्तक्रमेण दर्शयति तयोः सूत्रयोरवतारयाय । स खल्वयं द्विविध इति । सोयमसंप्रज्ञातः, श्रागामिसूत्रेस्य प्रज्ञापूर्वकत्वदर्शनात् + उपायप्रत्ययो वक्ष्यमाणश्रद्धायुपायकारणको यो गि नामिह लोके भवति । इह लोके योगभ्रष्टानां च देवताविशेषतापत्रानां देवलोके भवप्रत्ययो जन्ममात्रकारणक इति क्रमः । तनोपायप्रत्ययं वि. स्तरेण वदिष्यन् सूत्रकारः सूचीकटाहन्यायेनादौ भवप्रत्ययं वदिष्यतीति सूत्रभाष्ययोः क्रमभेदो न दोषायेति मन्तव्यम् । उत्पत्तिक्रमानुसारेण सो क्रममुल्लङ्घ्य पूरयित्वा सूत्रमुत्थापयति । तत्रेति । तत्रोपायप्रत्ययो योगिनां प्रकृष्टयोगानां भवति । स च पश्चाद्वत्यतइति शेषः ॥ भवप्रत्ययो विदेषप्रकृतिलयानाम् ॥ १९ ॥
● इत्यादेरयमर्थइत्यस्य स्थाने इत्यर्थइति पाठकल्पनं तु युक्तम् । यथाश्रुतपाठे त्यस्यादेरिति व्युत्पत्त्या तदभ्यासस्प्रेतियन्यस्य प्रथम निर्बीजइतियन्यरूप इत्यर्थः । के चितुवस्यादेः पूर्वोक्तग्रन्यस्य श्रयमर्थः इत्यर्थ मूर्ति वर्णयन्ति । रा० शा० ॥
+नादिति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org