________________
योगवार्तिकम् ।
३५ इति । प्रथमं योगं संप्रज्ञातं समादधानस्य कुर्वतः । आदितः क्रमाज्जायतइत्यर्थः ॥
योगारम्भे मर्तहरिममर्तमथ चिन्तयेत । स्थले विनिर्जितं चित्तं ततः सत्मे शनैर्नयेत् ॥
इति । स्मृतिद्वयं चास्मिनान्सर्गिकनमे प्रमाणमिति। इदानीं 'संवेदो फेवले ध्यानं न कुर्याद्रघुनन्दने त्यादिस्मृत्यनुसारेण पूर्वपूर्वभूमिकासत्तरो. तरभूमिविषयस्य चिन्तनमुत्तरोत्तरभूमिषु च पूर्वपूर्वविषयस्य परित्यागं विदधाति । तत्र प्रथमश्चतुष्टयानुगत इत्यादिना । तत्र प्रथमः सवितको वितकानुगतः समाधिश्चतुष्टयानुगतो वितर्कादिचतुष्टयेनानुगतो भवति । तप्तायपिण्डवदेकीभावेन स्थलसाक्षात्कारे पुरुषपर्यन्तानां सर्वेषामेव भानात् । अत्र च विचारादित्रयविषयग्राहकतामात्रेण विचारादित्रयानुगतत्वं विवक्षितमन्यथा सांकांपत्तेः । वितकानुगते समाधी केवलात्म. पर्यन्तसाक्षात्काराभावाच्च । एवमुत्तरेष्वपि बोध्यम् । द्वितीय इति । द्वि. तीया विचारानुगतो वितर्कविकलः वितर्कमिजयात्तरित्यागेन तद्वि. पर्यावकलः । तृतीय इति । तृतीय आनन्दानुगतो विचारविषयेणापि विकलः । चतुर्थ इति । चतुर्थीस्मितानुगतस्तद्विकल आनन्देनापि विकल रत्यतोस्मितामात्र इत्यर्थः । असंप्रज्ञातात्संप्रजातस्य भेदमाह । सर्व. एतइति । सालम्बनाः साधारणा एकायवृत्तियुक्ता दति यावत । समाधयो योगाः कार्यकारणयोरभेदादिति प्रागेव व्याख्यातम् । क्रमप्राप्तमसंप्रजात. मवतारयितुं पृच्छति । अर्थात ॥
विरामप्रत्ययाभ्यासपर्वः संस्कारशेषोन्यः ॥ १८॥
वृत्त्यापि विरम्यतामिति प्रत्ययो विरामप्रत्ययः परं वैराग्यं जाने प्यलंबुद्धिानमपि शात्वित्येवंरूपा तस्या अभ्यासात पानःपुन्याज्जायत. इत्याविशेषणार्थः । तथा चादयविशेषणेनोपायकथनं मध्येन लतणकथनमन्त्येन लक्ष्यकथन,मन्यो ऽसंप्रज्ञात इत्यर्थः । अन्त्यं विशेषणद्वयं ध्याचष्टे । सर्वति । समाधिोगः । आत्यविशेषणस्य पर्यवसितार्थमाह । तस्य परं वैराग्यमुपाय पति । नन्वेकायतारूपोभ्यासो ऽप्यत्र साक्षात्कारणं |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org