________________
योगबार्तिकम् ।
योरवक्ष्यमाणत्वादिति । अत्र कश्चित् ल्हादो ल्हादवानिन्द्रियवर्गः । तथा च इन्द्रियाकारत्वादिन्द्रियरूपो यश्चित्तस्याभोगः साक्षात्कार: स शानन्द इत्यर्थं घर्दात । तव । एतादृशलक्षणायां प्रमाणादर्शनात् । इन्द्रियस्यापि स्थूलतया तत्राभोगस्यापि वितर्कमध्यएव प्रवेशाच्च कारणस्वमेव सूक्ष्मत्वमिति भाष्ये वक्ष्यमाणत्वेन केवलविकृतित्वरूपस्यास्थूलत्वस्येन्द्रियसाधारण्यादिति । किं च । इन्द्रियगोचरसंप्रज्ञातस्यानन्दानुगतत्वे सति परोक्तरीत्या तत्रापि वृत्त्युपरागानुपरागाभ्यां सानन्दनिरानन्दरूपावान्तरविभागसंभवात्तदवचनेनागामिसूत्रभाष्ययोर्न्यनता स्यात् । अस्माख्याने चावान्तरविभागो न संभवतीति न तदवचनन्यूनता । यत्तु यहीसुग्रहणग्राह्येषु तत्स्य तदञ्जनता समापत्तिरितिसूत्रे ग्राह्यात् पृथगन्द्रियेषु संप्रज्ञातो वक्ष्यते तत्प्रकारान्तरेण संप्रज्ञातस्याखिलविषय संकलनार्थमेव न तु वितर्कानुगतविचारानुगताभ्यामिन्द्रियसमापत्तेरानन्दानुगतरूपभेदमभिप्रेत्य तथा तात्पर्ययाहक लिङ्गाभावादिति दिक् । एकात्मिका संविदस्मितेति । एकशब्दोत्र केवलवाची एकात्मिका एक एवात्मा अस्यां विषयत्वेनास्तीत्येकात्मिका । तथा चोक्तम् । एकालम्बने या चित्तस्य केवलपुरुषाकारा संवित् साक्षात्कारो ऽस्मीत्येतावन्मात्राकारत्वादस्मितेत्यर्थः । सा च जीवात्मविषया परमात्मविषया चेति द्विधा वक्ष्यते तेनानुगतो युक्ता निरोधो ऽस्मितानुगतनामा योग इति भावः । अस्य अस्मिताया अपि सास्मितनिरस्मितरूपो विभागो नास्ति सूत्रभाष्ययोरवक्ष्यमाणत्वात् केवलपुरुषज्ञानस्य निर्विकल्पकमात्ररूपतया द्विविधत्वासं भवाच्च । देहेन्द्रियायुपरागे तु सविकल्पानां योगानां वितकानुगतादिभूमित्रयएवान्तर्भावादिति । अत्र चास्मिताशब्दो विविक्तचेतनाकारतामात्रोपलक्षकस्तेनोदासीनभावेन य ईश्वर चेतन त्त्वसाक्षात्कारस्तस्यापि संग्रहः सोपाधिकेश्वरसंप्रज्ञातस्य च विचारानुगते प्रवेशः । एताश्च संप्रज्ञातभूमय आनन्दानुगते विचारानुगते प्रवेश्य मातधर्मवाक्येभोक्ताः ॥ वितर्कश्च विवेकश्च विचारश्वोपजायते । मुनेः समादधानस्य प्रथमं योगमादितः ॥
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org