________________
योगार्तिकम् । विरोधः । विरामप्रत्ययाभ्यासपूर्व इत्यागामिपि परवैराग्यस्य प्रत्यय त्वलाभाच्चेति । ज्ञानप्रसादस्य लक्षणमाह । यस्योदयति । यस्य ज्ञानप्रसादस्योदये सति । एतस्यैव विवरणं प्रत्युदितख्यातिनिष्पवात्मज्ञानो योगीति। प्रायणीयं ज्ञानं प्राप्त सिद्धं यतः क्षीणा अविद्यादयः क्षेतव्याः क्लेशाः । अतश्च श्लिष्टानि निःसंधीनि पर्वाणि यस्य स श्लिष्टपा भव. संक्रमो देहाडेहान्तरसंचाराख्यः संसारशिछत्रः, पुनर्न भवितेति यावत् । यस्य संसारस्याविच्छेदात जन्ममरणप्रवाहो ऽतिदुःखदो भवतीत्येवं मन्य. तइत्यन्वयः । ज्ञानप्रसादमात्रमित्युक्तं शब्दान्तरेण विवृणोति । ज्ञानस्यैवेति । ज्ञानस्य परा काष्ठा च विवेकख्यातावलंप्रत्ययो दुःखात्मिकेयमपि शात्वितिरूप इत्यर्थः। अस्य ज्ञानकाष्ठात्वे हेतुमाह । एतस्यैवेति । एत. स्यैव यतो ज्ञानप्रसादस्य केवलं नान्तरीयकं नियतम् । एतस्मिन्नेव सति कैवल्यमावश्यकं नान्यस्मिन् ज्ञाने यमनियमादी वैराग्ये वा तत्सत्त्वेप्यसं. प्रज्ञातानुदयेनाशेषतः प्राचीनकर्मक्षयानियमतः कषायसंभवतश्च मोते विलम्बसम्भवादिति । तदेवं सामान्यतो योगस्तत्साधनं चोक्तमिझनों विशेषतो योगतत्साधने वक्तव्ये तत्रादौ योगगतमवान्तरं विभागं दर्शाययति सूत्रकारः । तत्सूत्रावताराय पृच्छति । अथोपार्योति । उपायद्वयेन अभ्यासवैराग्याभ्यां, निरुद्धराजसतामसवृत्तेः पुरुषस्य कथं कैः प्रकारभेदैः संप्रज्ञातयोगः शास्त्रेषु कथ्यतइत्यर्थः । अत्र प्रत्युत्तरं सूत्रम् ॥ वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः ॥ १७॥
अस्यार्थः । साक्षात्काविशेषरूपैर्वितर्कादिभिरनुगमात् हेतोः सम्यक प्रज्ञावत्त्वेन योगः संप्रज्ञातनामा भवति । वितर्कादिभूमिभेदैश्चतुर्थी विभक्त इत्यादिति । अत्र रूपानुगमादिति पाठः प्रामादिकत्वादुपेत. णीयः । भाष्ये वितर्कविकलः सविचार इत्यादिप्रयोगेषु रूपपदाप्रयोगात आयसूत्रेपि भाष्यकृता वितानुगतो विचारानुगत इत्यादेरेव प्रयोगाच्च । यच्च तत्र पाठे वितादीनां रूपैरनुगमादिति कस्य चियाख्यानं तदपि वैयादुपेक्षणीयम् । वितर्कादिचतुष्टयं व्याचष्टे । वितर्कश्चित्तस्येत्यादिना।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org