________________
योगवार्तिकम् । तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ ।
तदिति वैराग्यं परामृश्यते, तथा चात्म द्वयान्यतरसाक्षात्काराभ्या. साडेतोरुत्पदामानं सकलगुणेषु वैवृष्ण्यं परं श्रेष्ठं वैराग्यमित्यर्थः । पूर्व. सूत्रोक्तवैराग्यादस्य भेदं दर्शयति । दृष्टेत्यादिना । पूर्वसूत्रे विषयदोषदर्शनाद्विषयेष्वेव वैराग्यमुक्तं न तु ज्ञाने, तदानी ज्ञानेपि विनाशित्वादिदोषदर्शनसाम्यपि नालंबुद्धिरूपं वैराग्यं संभवति अविवानिवृत्त्याख्यप्रयोजनवत्त्वात्, अत्र तु सत्रे ज्ञानेनाविद्यानिवृत्त्यादौ सिद्धे तेनैव दोषदर्शनेनानात्मत्वदृष्टया च ज्ञानसाधारणेष्वखिलकार्यकारणेष्वात्मतृप्तस्योपेक्षेति वैराग्ययोर्भेद इति वाक्यार्थः । तच्छुद्धीति । पुरुषशुद्धिप्रविवेकश्चितिशक्तिरपरिणामिनीत्यादिना दर्शितस्तेनाण्यायिता तृप्ता समाप्तपुरुषार्था बुद्विर्यस्योत वियहः । व्यक्ताव्यक्तेति । व्यक्ताव्यक्ते स्थलसूत्मे कार्य धर्मावाश्रिते येषु सत्त्वादिगुणेषु तेभ्यः, तैः कार्यैः सहितेभ्यस्तेभ्य इति यावत् । तट्टयमिति । तत्तस्मादुभयं परस्परभिन्नं वैराग्यमित्यर्थः । द्वितीयवैराग्यस्य परत्वे हेतुमाह । तत्र यदुत्तरमिति । ज्ञानप्रसादमात्रं वैराग्र्यामत्यागामिनान्वयः । ज्ञानस्य प्रसादश्च स्वयं व्याख्यास्यते । ननु वैतृष्पयं तृष्णाधिरहरूपं वैराग्यं सूत्रकारेणोक्तं तद्विहाय कथं भाष्यकारेण ज्ञानरूपं तदुच्यतइति चेत्, न । शब्दभेदेण्याभेदात् । नह्मभावोस्मन्मतिरिक्तो ऽस्ति, अधिकरणस्यावस्याविशेषस्यैवाभावत्वात् । तथा च चित्तस्यैव तादृशी ज्ञानावस्यैव तृष्णाविरह इति । यदि च सुषुम्यादी तृष्णाविरहोपेक्षितस्तदा ज्ञानप्रसादयोग्यतैव परवैराग्यमुच्यतां योग्यता च निर्मलसत्त्वतेति । अपि च भवतु वैवृष्ण्यमेव वैराग्यं तथापि ज्ञानप्रसादेनैव वैतृष्ण्यगतो विशेषोऽनुमीयतइति लिङ्गलिङ्गिनोरभेदोपचारात्सूत्रभाष्ययोर्न
___* सूत्रे पुरुषपदं बुद्धेरप्युपलक्षणं तदाह । प्रात्मद्वयेति । प्रात्मद्वयं बुद्धिपुरुषरूपं, बुद्धिश्च स्थलसूक्ष्मभेदेन बुद्धिप्रतिरूपा । तथा च प्रतिबुझ्दोः पुरुषस्य वा साक्षाकारेत्यर्थः । के चिदन्यतरसाक्षात्कारस्यान्यत्र तत्प्रयोजकत्वानुक्तरत्रात्मद्वयात्पर्कातबुद्धिरूपात् पुरुषस्य यः साक्षात्कारो विवेकेन दर्शनमित्यर्थमुपवर्णन्ति । के चिच्चात्महेयान्यतरेतिपाठं प्रकल्प्य हेयपदेन बुयादेः संग्रह इति वर्णयन्ति । प्रात्मसाक्षात्कारेतिपाठस्तु सूत्रभाष्यवाचस्पत्यादिसकलयोगग्रन्यानुगुणो ऽत्र कल्प्य इति परे। रा० शा०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org