________________
३०
योगवार्तिकम् । दपुरुषार्थत्वाच्च । प्रतिलयानां च विदेहेभ्यो ऽयं भेदः। विदेहाः सावरणब्रह्माण्डान्तर्गता एवाल्पमैश्वयं मलिनं च विषयं भुञ्जते, प्रकृतिलयास्तु हिर्गमनेन विदेहान् प्रत्यपीशते स्वसंकल्पमात्रेण तत्रैव निर्मल कारणसवनिर्मितं विषयं च भुजते तईश्वरकोटय उच्यन्तइति । षष्टान्तं हेतुगर्भविशेषणपदं व्याख्याय वशीकारसंति विशेष्यपदं व्याचष्टे । दिव्यादिव्येति । अयमर्थः । आदौ विषयसानिध्यरूपेवसरे दोषावरकाभावाद् दोषदर्शनेन वैतृष्णयं भर्वात विरक्तिोषदर्शनादिति स्मृतेः । तच्च त्रिविधं यतमानसंज्ञा तिरकसंज्ञा एकन्द्रियसंति । एताश्च पश्चायाख्यास्यामः । एतस्माच्च त्रिविधवैतृष्णयादभ्यस्यमानाद्विषयसंयोगकालेपि दोषदर्शनमप्रतिबद्धमुत्पदयते वैराग्यावोषदर्शन मिति स्मृत्यन्तरात, कुतः पुनरप्रतिबन्धः । तत्रोक्तं, प्रसंख्यानबलात दोषसाक्षात्कारस्य बलवत्त्वादिति। दोषसाक्षात्काररूपबलाभावात्तु सौभर्यादेः प्राविरक्तस्यापि विषयसत्रिकर्षण दोषदर्शनं प्रतिबध्य पुना राग उत्पादित इति । एतस्माच्च दोषदर्शनोत्कर्षाद्विषयसंयोगकालेपि या चित्तस्यानाभोगात्मिका ऽऽभो. गरहिता एतस्य विवरणं हेयोपादेयशन्या रागद्वेषशून्या वशीकारसंज्ञा या वितृष्णा सा वैराग्यमपरमिति शेषः । उत्तरसूत्रे तत्परमिति वचनादस्यापरत्वम् । तथा च रागद्वेषशून्यस्य विषयसाक्षात्कारस्य योग्यता वशीकारसंज्ञाख्यं वैराग्यमिति पर्यवसितम्। तेन सर्वदैतादृविषयसंयोगाभार्वोप न निरोधासंभवः । तदेवमनेन सूत्रेण हेतुहेतुमदावरूपतस्तन्त्रान्तरसिद्ध वैराग्यचतुष्टयमेवोक्तम् । तत्र प्रथममिका यतमानसंज्ञानानी वितृष्णा ज्ञानपूर्वकं वैराग्यसाधनानुष्ठानम् । द्वितीयभूमिका व्यतिरेकसंज्ञा सा च जितान्येतानीन्द्रियाणि एतानि च जेतव्यानीति व्यतिरेकावधारणयोग्यता। तृतीयभूमिका च एकेन्द्रियसंज्ञा सा च बाझेन्द्रियविषयेषु रूपादिषु रागादिक्षये संत एकस्मिन्नेव मनसि मानापमानादिविषयकरागद्वेषादितयो रागद्वेषज्ञानपूर्वक इति । चतुर्थभूमिका तु वशीकारसंज्ञा स्पष्टमुक्त. वेति ॥
अपरवैराग्यमुक्त्वा परवैराग्यमाह ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org