________________
योगवार्तिकम् ।
२९
तथा च चर्माणि द्वीपिनं हन्तीतिर्वादियं निमित्तसप्तमीति । यत्नशब्दं व्याचष्टे । प्रयत्न इति । प्रयत्नमपि पर्यायाभ्यां विशदयति । वीर्यमुत्साह इति । तथाप्यस्पष्टं मन्वानो ऽतिविशेषत ग्रह । तत्संपिपादयिषयेति । तत्संपादनेच्छया श्रद्धावीर्य स्मृतिसमाधिप्रज्ञादीनां वक्ष्यमाणानां साधनानामनुष्ठानमभ्यास इत्यभ्यासलक्षणं कृतम् । ननु व्यत्थानसंस्कारेणानादिना प्रतिबन्धात् कथमभ्यासः स्थितं संपादयतु इत्याकाङ्क्षायामाह सूत्रकारः ॥ स त दीर्घकालनैरन्तर्यसत्कारासेविना दृढभूमिः ॥ १४ ॥
सत्कारासेवित इत्येतद्विवृणोति । तपसेत्यादिना सत्कारवानि त्यन्तेन । दृढभूमिरित्येतद्विवृणोति । व्युत्थानेति । व्युत्थानसंस्कारेण द्रागित्येव सहसा अनभिभूतः स्थितरूपो विषयो यस्य स भवतीत्यर्थः । अभ्यासं कृत्वा परमे च कालक्रमादभिभवो भवत्येवेति प्रतिपादयितुं द्रागि त्येवेत्त्युक्तम् । अभ्यासं लक्षयित्वा वैराग्यं लक्षयति ॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
रागाभावमात्रं दोषदर्शनजन्यो रागाभावो वा न निरोध हेतुवैराग्यं रोगादिनिमित्तका रुचितो योगानुदयात् । दोषदर्शनज वैराग्यादनन्तरमपि विषयसांनिध्येन चित्तक्षेोभतः सौभर्यदियोगानिष्पतेश्च । अतोत्र वैराग्यस्य वैतृष्ययमात्रं न लक्षणं किं तु यथेोक्तवितृष्णस्य वशीकारसंज्ञेति । तदेतद् व्याचष्टे । स्त्रिय इति । दृष्टविषयवितृष्णस्येति व्याख्याय अनुश्रविकविषयवितृष्णस्येति व्याचष्टे । स्वर्गेति । स्वर्गश्च वैदेत्दां च प्रकृतिलयत्वं च तेषां प्राप्तिरेवानुश्रवाख्यवेदोक्तो विषयस्तत्र च वितृष्णस्येत्यर्थः । स्थूल देहविरहेपि लिङ्गशरीरेणैव येषां देवानां भोगस्ते विदेहास्तद्रूपता च वैदेह्यम् । ये तु सावरणब्रह्माण्डाद्वहिरावरणे प्रकृतौ लीनाः श्लिष्टाः लिङ्गदेहेन सह गता इति यावत् तेषां भावः प्रकृतिलयत्वं न तु प्रलय एवात्रेोक्तः, करणं गतस्यैव श्रुतिस्मृत्येोभागश्रवणात् । अन्यथा प्राकृत प्रलयव
• वस्तुतो वैषयिके श्राधारे सप्तमो न तु निमित्तसप्तमी कर्मयोगाभावादिति । रा० शा०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org