________________
योगवार्तिकम् । वहति । अन्यथा समुद्रगमनमात्रेण शुष्येतैव । एवं चित्तनापि उभयतोवा. हिनी । उभयतो वहनस्य प्रयोजनमाह । वहतीति । कल्याणं मोतस्तदर्थ, पापं संसारस्तत्फलत्वात्तत्कारणत्वाद्वा तदर्थम् । तथा चोक्तम् ।
प्रत्यग्दृशां विमोक्षाय निबन्धाय परागदृशाम् ।
अपामार्गलतेवायं विरुद्धफलदो भवः ॥ इति ।
प्रवाहद्वयं विशिष्य दर्शयति । या विति । प्रागभारा अभिमुखी। विवेकविषयो निम्नो गमनमार्ग यस्या इत्यर्थः । जलस्य हि प्रवाहाभिमुखं वर्त्म नीचं भवतीति । तत्र चित्तनदयां वैराग्येण विषयमार्गगं वृत्तिस्रोतः खिलीक्रियते अल्पीक्रियते विवेकदर्शनस्याभ्यासेन च विवेकमार्गगं त्तिस्रोत उद्घाट्यते बलवत् क्रियते येन निरोधाख्ये कैवल्यसागरे विलीयते इत्यतोवान्तरव्यापारभेदेनोभयाधीनश्चित्तत्तिनिरोध इत्यर्थः । तदुक्तं गीतायाम् ।
असंशयं महाबोहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ इति ।
अत्र विवेकदर्शनमात्रस्याभ्यासः प्राधान्येनोक्तः । आगामिसत्रे निरोधसाधनानुष्ठानसामान्यस्यैवाभ्यासत्वावगमादिति । अत्राभ्यासवैराग्ये क्रमाल्लक्षति सूत्रजातेन ॥
तत्र स्थिती यत्नो ऽभ्यासः ॥ १३ ॥ तत्राभ्यासवैराग्ययोर्मध्ये। चित्तस्येति । प्रवृत्तिकस्य वृत्त्यन्तरशन्यस्य न तु वृत्तिसामान्याभाववतः, स्थित्यनन्तरं संप्रज्ञातस्य समापत्तिसूत्रे भाष्यकारयाख्येयत्वात् । प्रशान्तवाहितेति । वृत्त्यन्तराभावात् प्रशान्ता हर्षशोकादितरङ्गरहिता एकाग्रवृत्तिधारेत्यर्थः । शान्तिश्च तन्त्रेषता ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घात्वा शुभाशुभम् । न हात ग्लायति च स शान्त इति कथ्यते ॥ इति । स्थितिशब्दार्थ व्याख्याय सप्तम्यर्थ ध्याचष्टे । तदर्थ इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org