________________
योगवार्तिकम् ।
का भवति घटमहं जानामीत्यनुव्यवसाये ज्ञानस्य घटांशे विशेष्यत्वात्, स्मृतिस्तु याह्याकारविशेष्यिका भवति स घट दूत्येव स्मरणात् । तत्ता च पूर्वज्ञानत्वरूपा । अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यमिति । अयं चाकारभेदोऽनुभवसिद्ध इति भावः । स्मृतेश्वान्तरभेदं दर्शयति । सा च द्वयीति । भावित उद्भावितः सूचितः स्मर्त्तव्यार्थी ययेति भावितस्मर्त्तव्या तद्विचा चाभावितस्मर्त्तव्या । तयोरुदाहरणे दर्शयति । स्वप्ने इति । स्वप्नदर्शनमेव हि भाव्यर्थसूचकतया शास्त्रे सिद्धं न तु जायत्कालीना स्मृतिरिति । ननु स्वप्ने पूर्व दृष्टत्वास्मरणात् संस्कारमात्रजन्यत्वाभावाच्च कथं स्मृतित्वमिति चेत्र । अंशतस्तदुभयरूपत्वस्य स्वप्नज्ञानेष्वपि सत्त्वात् तादृशस्य स्वप्नांशस्यैवात्रेापन्यासादिति । सर्ववृत्त्यन्ते स्मृतिवृत्तेरुपन्यासस्य बीजमाह । स इति । अनुभवात्, अनुव्यवसायात् । अनुभावादिति पाठे प्रभावादित्यर्थः । यथेोक्तानां वृत्तीनां निरोध्यत्वे बीजमाह । सर्वाश्चैता इति । एताः सर्वाः प्रमाणादिवृत्तयो बुद्धिद्रव्यस्य सुवर्णस्येव प्रतिमादिर्वाद्विषयाकारा द्रव्यरूपाः परिणामाः सुखदुःखमेोहगुणका इत्यर्थः । बुद्धिवृतिर्हि रूपादिमती भायैव सुखादिमती पुरुषस्य भोग्येति । अतो दुःखवत्त्वेन वृत्तयो निरोद्धव्या इत्युपसंहरिष्यति । ननु सुखवत्त्वेनोपादेयत्वमेव कुतो न भवेदित्यत आह । सुखदुःखेति । क्लेशेषु क्लेशव्याख्यानसूत्रेषु व्याख्येयाः । व्याख्यानमेवाह । सुखानुशयी रागइत्यादि । सुखदुःखानुशयी सुखदुःखवि. षयकः । तथा च रागजनकतया दुःखवत्सुखर्माप हेयं, मोहस्त्वविद्यारूपतया शोकाद्व्यखिलदुःखनिदानत्वेन हेय इत्याशयः । एता इति । अतो दुःखात्मकत्वादेताः सर्वा निरोद्धव्या दूत्यर्थः । प्रकरणार्थमुपसंहरति । आसामिति । तदेवं सामान्यतो योगस्य लक्षणं कृतमिदानीं तस्योपायं प्रतिपादयिष्यत सूत्रकारस्तत्र संक्षेपाद् उपायसारसंग्राहकं सूत्रमवतारयति । अथासामिति ॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
अभ्यासवैराग्ये व्याख्यास्येते । अभ्यासवैराग्ययोरवान्तरव्यापारभेदेन निरोधजनने समुच्चय एव न विकल्प इत्याह । चित्तनदीति । यथा नदी कदाचित् समुद्राभिमुखी वहति कदाचिच्च तद्वैपरीत्येन पृथिव्यभिमुखी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org