________________
योगवार्तिकम्। प्रायिक स्वरूपमेवोक्तं तेन न प्रमुष्टतत्ताकस्मरणाव्याप्तिः । अथ वा सूत्रोक्तमेव लक्षणं तच्च संस्कारमात्रजन्यत्वेन विशेषणीयं प्रमुष्टतत्ताकं तु संस्कारमात्रजन्यमपि ज्ञानमनुभवमध्ये प्रवेशनीयं, शब्दजन्यपदार्थापस्थि. त्यादौ स्मरामीति स्फुटं व्यवहारादर्शनात् । प्रमाणेत्यादित्तिविभागसूत्रे तु संस्कारमात्रजन्यत्वगुणेन तादृशं ज्ञानं स्मतिशब्दगृहीतमनेन च सूत्रेण मुख्यस्मृतिर्लक्षितेति । स्मृते तितदर्थाभयविषयकत्वं सूत्रोक्तमवधारयितुं भाष्यकारो विमृशति । किं प्रत्ययस्येति । स्मृत्यर्थधातुयोगात् कर्मणि षष्ठी। चित्तंकि पूर्वानुभवरूपं प्रत्ययमपि स्मरति आहो स्विद्विषयमात्रमित्यर्थः। तत्र स्मृतरुभयविषयकत्वरूपमादां पतं सिद्धान्तयितुमादावुभयस्मरणे कारणमु. भयगोचरसंस्कारमुपपादयति । याहोपरक्त इत्यादिना । यतो ग्राहोपरक्तो ज्ञार्नावशेषणतया घटादिभिरप्याकारितो ऽतो ग्राहायहणेोभयाकारनिर्भासस्तदुभयाकारतया प्रसिद्धो यः प्रत्ययो घटं जानामीत्यनुव्यवसायः स तथाजातीयकं याह्यग्रहणेोभयाकारमेव संस्कार जनर्यात समानाकारत्वेनैव लाघवादनुभवसंस्कारस्मृतीनां कार्यकारणभावादित्यर्थः । नन्वत्र व्यवसायरूपवृत्तेः स्वप्रकाशत्वमेव निर्भासान्तविशेषणार्थः कथं नेष्यतति चेत्, न । कर्मकर्तृविरोधेन वृत्तेः स्वविषयकत्वस्य सूत्रभाष्याभ्यां चतुर्थपादे निराकरिष्यमाणत्वात् । ननु किं व्यवसायस्य संस्कारजनकत्वमेव नास्ति।न नास्ति, किं तु तत्संस्कारजन्यं ज्ञानं स्मृतिर्न भवति प्रमुष्टतत्ताकस्य पराभिमतस्य स्मरणस्यास्माभिर्व्यवहारानुसारेणानुभवमध्यएव प्रवेशनादिति । नन्वस्तभयविषयकसंस्कारस्ततः किमित्यत आह । स संस्कार इति । स चोभयविषयकसंस्कारो यदा स्वाभिव्यजकेन कालादिनाभिव्यक्तो भवति तदा तदाकारां स्वसमानाकारामेव याह्यग्रहणाभयात्मिकां तदुभविष. यिणी स्मृतिं जनयतीत्यर्थः । अनुभविषयासंप्रमोषं सूत्रोक्तं व्याख्यायानुव्यवसायतज्जन्यस्मरणयोर्विशेषमण्याह । तत्र ग्रहणइति । पूर्व मुख्यं विशेयति यावत् । तयोः प्रत्ययस्मरणयोरत्यन्तं समानाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये बुद्धिरनुव्यवसायरूपा यथोक्तप्रत्ययो यहणाकारविशेष्यि
* स्मरणे ऽव्याप्तिरिति तु युक्तम् । रा. शा.॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org