________________
योगवार्तिकम् । रोति * सूत्मार्थप्रतिबिम्बोदाहिणों करोतीत्यर्थः । विशारदां करोतीति पाठस्तु साधुः । यस्यांरजःसचिवं तम आविर्भवति तस्या राजस्या निद्राया उत्थितस्य स्मरणाकारमाह । दुःखमिति । स्त्यानमकर्मण्यं, तामस्या निद्राया उत्थितस्य स्मरणाकारमाह । गामिति । अलमत्यन्तं मुषितमिव परैरपहतमिव तिष्ठतीत्यर्थः । अलसमिति पाठे तु स्त्यानता चित्तस्यातिचाञ्चल्येन कर्माक्षमता, आलस्यं तु तमोधर्मगुरुत्वेन कर्माक्षमता कर्मण्यनिच्छा वेति भेदः । ननु भवतु प्रत्यवमर्शस्तथापि कथं सुषुप्ता प्रत्ययसिद्धिस्तत्राह । स खल्विति । प्रत्ययानुभवे सूत्रोक्तस्याभावप्रत्ययस्यानुभवे सति सायं प्रत्यवमर्शः खलु न स्यादित्यर्थः । संस्कारासंभवादिति भावः । ननु वृत्तिं विनापि सुखादिवत् सुषुप्ती स्वापस्य साक्षिभास्यत्वमभ्युपगम्य तत्स्मरणमुपपादनीयमित्याशङ्कयाह । तदाश्रिता इति । सद्विषयाः प्रत्यर्यावर्षायिकाः स्मृतयोपि तदाश्रिताश्चित्ताश्रिता न स्युरन्यदृष्टस्यान्येनास्मरणादित्यर्थः । न च स्मरणमपि साक्षिण्येवास्त्विति वाध्यम् । तत्र संस्कारासंभवात् स्मृत्याख्यपरिणामासंभवाच्चेति । ननु निद्रा. वृत्तिरपि तमस्येकाया विषयदुःखशन्या चेति सा किमर्थं निरोदुव्येत्याशयाह । सा चेति । इतरवृत्तिवत् सुखदुःखमोहात्मकत्वेन समाधिपतिपतत्वेन च निद्रापि समाधी निरोडव्येत्यर्थः ॥
अनुभूतविषयासंप्रमोषः स्मतिः ॥ ११ ॥ भाष्यानुसारेणास्य सूत्रस्यायमर्थः । एवमनुभूती यो विषयौ वृत्तितदारूढा तयोरसंप्रमोषो ऽस्तेयमनपहरणं धर्मधर्म्यभेदात्तद्वती तदु. भविषयिणीति यावत्, एवंभूता वृत्तिः स्मृतिरिति । अत्र प्रत्यभिज्ञा. दिव्यावृत्तये संस्कारमात्रजन्यत्वमेव स्मृतिलक्षणं, सूत्रकारेण तु स्मृतेः
* वाचस्पत्ये स्वच्छीकरोतीतिविवरणादपलब्धसर्वभाष्यपुस्तकेषु विशारदीकरोतीतिनिरनुस्वारपाठस्य दर्शनाच्च च्यन्तो ऽप्ययं पाठः साधुरेव । वार्तिककारस्य तु 'प्रतिबिम्बोद्वाहिणीं करोती ति द्वितीयान्तेन विवरणं डीषादेरप्राप्त्या बहादिषु पाठकल्पने प्रमाणाभावेन पाठान्तरकल्पनं च 'विशारदीम्' इति द्वितीयान्तपाठावगमेनेति भाति । रा० शा०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org