________________
योगवार्तिकम् । समस्तकरणावरकं तम आविर्भवति तदा मलिनस्य चित्तसत्त्वस्य तमआकारैव वृत्तिः स्वपिमीत्याकारा जायते, स्वापश्चात्र जायत्स्वप्नवृत्त्यभावः । तां च निद्राख्यां वृत्तिमवबुध्यमानः पुरुषः सुषुप्तस्थानोन्तःप्रज्ञ इति श्रुतिभि| रुच्यत इति । न च चित्तेन चित्तयहणे कर्मकर्तृविरोधः । वृत्त्या चित्तस्य यह. णेन कर्मकर्भिदात् । न चैवमेकया वृत्त्या वृत्त्यन्तरयहणसंभवे पुरुषकल्पनावैयर्थ्यम् । नियमेन वृत्तिगोचरवृत्तिकल्पने ऽनवस्थायाः सूत्रेण वयमाणत्वादिति । ननु निरोधे * कैवल्यप्रलयादिष्विव वृत्त्यभाव एव सर्वस्यां सुषुप्ता कथं न स्वीक्रियते न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्यदिति सौषुप्तश्रुतावपि तदानी ज्ञानाभावस्यैवावगमादित्याशङ्कयाह । सा तु संप्रबोध इति । सा तु निद्रा प्रत्ययविशेष एव; जागरे स्मरणादित्यर्थः । अत एव 'त्रिषु धामसु यवाग्यं भोक्ता भोगश्च यद्भवेदित्यादिश्रुतयः सुषुप्तस्थानेपि भोग्यमस्तीत्याहुः । न चैवं श्रुत्यार्विरोध ति वाच्यम् । अर्धसमग्रभेदेन सुषुप्तेट्टैविध्यात् । 'मुग्धेईसम्पत्ति'रिति सुप्तिप्रकरणस्थवेदान्तसूत्रात । अन्यथा श्रत्योर्विरोधस्यापरिहार्यत्वाच्च कदा चिद्गा. ढतमसा चित्तसत्त्वस्य तमोगोचरवृत्तावप्यसामयं च संभवत्येवेति । यत्त्वाधुनिका वेदान्तिब्रुवा आहुः, सुषुप्तो तमः सातिभास्यमेव न तत्र वृत्तिरस्तीति । तत्र । वयमाणस्मरणानुपपत्तेः साक्षिण्यपरिणामिनि सं. स्कारस्मृत्योरनभ्युपगमात् । यच्च तदेकदेशी सुषुप्तावज्ञानाख्यप्रकृतेरेव वृत्तिमाह न तु चित्तस्य, तदपि हेयम् । एवं सति जायत्स्वप्नयोरपि तस्या एव वृत्तिसंभवे चित्तकल्पनावैयादिति । तस्माज्जायत्स्वप्नयोरिव सुषुप्लेपि चित्तस्यैव वृत्तिः, 'जायत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः' इति स्मृतिभ्यश्च, तथा चित्तत्वेनैव वृत्तिसामान्ये हेतुतायां लाघवाच्चेति । स्मरणाकारं पृच्छति । कमिति । यस्यां सत्त्वसचिवं तम आविर्भवति तस्याः सात्विक्या निद्राया उत्थितस्य स्मरणाकारमाह । सुखमिति । प्रसनं निर्मलं मनः स्वस्मिन् जायमानां प्रज्ञां यथार्थत्तिं विशारदीक
।
* निरोधकैवल्येतिपाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org