________________
योगवार्तिकम् । शब्दज्ञानाननुपातित्वं विशेषणं देयमिति भावः । विकल्पस्योदाहरणमाह । तदाथेत्यादिना । किं विशेष्यं केन विशेषणेन व्यपदिश्यते अत्यन्ता. भेदात्रास्त्यत्र विकल्पज्ञाने विशेषणविशेष्यभावरूपोर्थ इत्यर्थः । वस्तुशन्य. त्वमुपपाय शब्दज्ञानानुपातित्वमुपपादयति । भवति चेति । चैत्रस्य गौरिति यथार्थशब्दवत् अत्रापि विशेष्याविशेषणभावव्यपदेशे सति तथा त्तिर्वाधो विकिनापि भवति चेत्यर्थः । अन्यान्यप्युदाहरणान्याह । तथेत्यादिना । शास्त्रैः प्रतिषिद्धा वस्तुभताः सुखादयो धर्मा यति प्रतिषिवस्तुधर्मा पुरुष, इयं वृत्तिरेकमुदाहरणम् । अभावस्याधिकरणमा. त्ररूपत्वेनाधाराधेयभार्वावरहादिति । निष्क्रियः पुरुष इत्यन्यदुदाहरणम् । लौकिकमप्युदाहरणत्रयमाह । तिष्ठतीति । तिष्ठति बाणः स्थास्यति स्थित इति तनिरत्तो गतिनित्तिविषयविकल्ये वर्तमानत्वादिविशिष्टं स्थाधात्वर्थमात्रं पारमार्थिकतया प्रतीयते कर्तृत्वं कर्तृत्वस्य वर्तमानत्यादिकं च प्रत्ययत्रयार्थस्तु विल्पित इत्यर्थः । बाणे गतिनिवृत्त्यनुकलात्य. भावादिति । उदाहरणान्तरमाह । तथानुत्पत्तीत्यादिना व्यवहार इतीत्यन्तेन । अनुत्तिर्धमा यस्येत्यनुत्तिधर्मा पुरुषः । स धर्मो, ऽनुत्पत्तिधर्मः । प्रमार्णावपर्ययातिरिक्तायां विकल्पवृत्ती बहुवादिविप्रतिपत्तेस्तबिरासाय बहून्यदाहरणानि । एवं खपुष्पशशशङ्गप्रत्यया अपि विकल्पमध्ये प्रवेशनीयाः । खपुष्यं नास्तीति प्रत्ययानुरोधेन तादृशप्रत्ययसिद्धेः । विकल्पमत्ययास्तु वैशेषिकैराहार्यज्ञानविशेषतयैष्टव्या एव । विशेषस्तु, तैमिथ्याजा. नमध्ये प्रवेश्यन्ते अस्माभिस्तु सविकल्पनिर्विकल्परूपाभ्यां श्रुतिसिद्धयो. गविभागार्थ पृथङ् निर्दिश्यन्तइति ॥
अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥ १० ॥ निद्राया वृत्तित्वस्फुटीकरणाय पुनर्वत्तियहणम् । जाग्रत्स्वानवृत्तीनामभावस्य प्रत्ययः प्रतिसंक्रमस्थानं कारणमिति यावत्। तच्च चित्तसत्त्वाच्छादकं तमोद्रव्यमन्धकारादिवत तदेवालम्बनं विषयो यस्याः सा तथा तादृशी वृत्तिनिद्रेत्यर्थः । बुर्हि त्रिगुणतया यदा सत्त्वरजसी अभिभूय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org