________________
२२
योगवार्तिकम् । इति । एतेषामेव च प्राधान्येनावान्तरविभागः सांख्यकारिकायामुक्तः ।
भेदस्तमसोष्टविधो मोहस्य च दविधी महामोहः । तामिस्रोष्टादशधा तथा भवत्यन्धतामिसः ॥
इति । अव्यक्तमहदहंकारपञ्चतन्मात्रेष्वनात्मस्वष्टस्वात्मबुद्धिरविद्या अष्टविधं तमः, ज्ञानावरकत्वात् । एतास्वेव देहायात्मबुद्धीनामन्तभाषः, देहादीनामेतदष्टककार्यत्वात् । शुक्तिरजतादिविपर्ययाणां तु संसा. राहेतुतया नात्र गणना, 'विपर्ययादिष्यतेबन्ध' इति पूर्वकारिकया बन्धहे. विपयर्यस्यैव प्रकृतत्वादिति । मोहादिष्वप्येवं बोध्यम् । अष्टस्वणिमादौश्वर्यष्वनात्मसु आत्मीयबुद्धिरस्मिता स्वत्वास्मितयोः पर्यायत्वात् सैध चाष्टविषयकतया अष्टविधो मोहो मुख्यत उच्यते । शेषं पूर्ववत् । तथा दृष्टानुश्रविकभेदेन दशसु शब्दादिविषयेषु रागो दर्शावधो महामोहः । शेषं पूर्ववत् । तथाष्टैश्वर्यस्य विषयदशकस्य च परिपन्थिान द्वेषोष्टादशधा तामिस्रः । शेषं पूर्ववत् । तथा ऐश्वर्याष्टकं विषयदशकं च नयतीति यस्वासः साष्टादशधाभिनिवेशान्धतामिस्रः । शेषं पूर्ववत् । एतदति । अविद्यादय इत्यर्थः ॥
शब्दज्ञानानुपाती वस्तुशन्यो विकल्पः ॥ ६॥
शब्दज्ञानानुपाती वस्तुशून्यः प्रत्ययो विकल्प इत्यर्थः । शब्दश्च शाब्दज्ञानं च ते अनुपातिनी यस्य स तथा। तथा च तदुभयजनकः सर्वदैव बाधाबाधकालाविशेषेणेत्यादयविशेषणार्थः । ननु विकल्पस्य सवस्तुकत्वे प्रमाणेन्तभावः, निर्वस्तुकत्वे तु विपर्ययेन्तीवस्तृतीयप्रकारासंभवादित्याशङ्कां परिहरनेव विशेषणयोावय॑माह । स नेति । उपारोहोन्तभावः। प्रमाणकोट्यनन्तभावे हेतुर्वस्तुशन्यत्वेपीति विपर्ययकोट्यनन्तभावे च हेतुः शब्दज्ञानेत्यादि । माहात्म्यं याथायं, तथा च यथार्थशब्देन यधार्थज्ञानेन च यादृशो ध्यवहारो भवति शब्दज्ञानरूपस्तादृश एव व्यवहारो विकल्पादपि दृश्यते विकिनामपीत्यर्थः । विपर्ययस्तु नैवं, बाधोत्तरमिदं रजतमिति शब्दप्रत्यययोरभावादिति । एतेन विपर्ययलक्षणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org