________________
योगवार्तिकम् । विवरणमतद्रपतिष्ठमिति । न तद्रपो न स्वसमानाकारो यो विषयस्तत्प्रतिष्ठं तद्विशेष्यमित्यर्थः । भ्रमस्थले जानाकारस्यैव विषये समारोप इति भावः । संशयस्याप्यत्रैवान्तभावः । अत्र च शास्त्रे ऽन्यथाख्यातिः सिद्धान्तो न तु सांख्यवदविवेकमात्रम् 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिविदोत्यागामिसूत्रात् । वैशेषिकाच्चात्रायं विशेषो यद्वाहरजतादेनारोपः किं त्वान्तरस्यैवेति, ज्ञानाकारमनुभवसिद्ध शुक्त्यादिकं सनिकृष्टं विहाय दूरस्थरजतादिविषयकत्वकल्पने गौरवात् स्वप्ने दृष्टमिदानीं नास्तीति स्वरूपतो बाधानुपपत्तेश्च । तथा च ब्रह्मसूत्रद्वयं 'संध्ये सृष्टिराह हो ति तदभिध्यानादेव तत्तिरोहितं ततो ह्यस्य बविपर्यया विति चेति । ननु प्रतीतिबलेनैव विषयः सिध्यतु तथा च शुक्तिरजतादिस्यलेप्यतद्रपप्रतिष्ठत्वमसिद्धमित्याशयेन पति। स कस्मा. दिति। परिहरति। यत इति । अबाधितानुभवेनैव विषयसिद्धिरिति भावः । ननु बाध्यबाधकभाव एव वैपरीत्येन कथं न भवति तत्राह। भूतार्थति। सदविषयत्वेन प्रमाणस्य बलवत्त्वात् तत्त्वपक्षपातो हि धियां स्वभाव इति। अत्रोदाहरणमाह । तत्र प्रमाणेनेत्यादिना । विपर्ययवृत्तेरतिहेयत्वख्यापना. याह । सेयमिति। पञ्चपा याऽविद्या संसारानर्थबीजं सा। इयमेव, मिथ्याज्ञानरूपा वृत्तिरव, एतद्विशेषण्वेति यावत् । अत इयमवश्यं निरोद्धव्यति भावः। पर्वाणि गति । अविद्याऽस्मितेति । क्लेशाः क्लेशाख्याः। क्लेशदत्वादिति भावः । रागादीनां मिथ्याज्ञानत्वाभापि अविदायानुगतत्वाद. विद्यापर्वत्वं विपर्ययत्वं च, यथाङ्करस्य बीजपर्वत्त्वं बीजत्वं चेति बोध्यम् । नन्वविया विपर्ययो मोह इति पर्याया एवं च सति मोहवृत्त्योरभेदात कथंशान्तघोरमूढत्वं वृत्तीनामिति सिद्धान्तो घटेति चेत्, न । धर्मधर्म्यभेदेनै वात्र वृत्तीनां विपर्ययादिरूपविभागकरणात् । वस्तुतस्तु वृत्तयो विपर्ययादिमत्य एवेति । अत्यन्तहेयत्त्वप्रतिपादनायान्वर्थसंज्ञापञ्चकं क्लेशाना माह । एतएवेति । स्वसंज्ञाभिः स्वानुरूपसंज्ञाभिः । तथा च विष्णपुराणम् ॥
तमो मोहो महामोहस्तामिस्रो झन्धसंज्ञकः । अविया पञ्चपर्वेषा. प्रादुर्भूता महात्मनः ॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org