________________
योगवार्तिकम् । सातादर्शनरूपं च साक्षित्वं सांख्यत्रितम् । अविकारेण द्रष्टुत्वं साक्षित्वं चापरे जगुः ॥
इति दिक् । पुरुषे वृत्तिबोधरूपं च फलमनुमानादिसकलत्तिष्वपि बोध्यम् । अनुमान लक्षति । अनुमानस्यति । साध्यविशिष्टः पक्षो ऽनुमेयः तस्य साध्यवत्त्वेन तुल्यजातीयेषु सपनेषु अनुवृत्तो विजातीयेभ्यो विपतेभ्यो व्यावृत्तो यः संबन्धो ऽात्तत्रैवानुमेये पक्षत्तिरिति यावत् । तद्विषया तचि. बन्धना, पीज बन्धने इत्यनुशासनात् द्विषयज्ञानजोत यावत् । एवंभूता या सामान्यावधारणप्रधाना वृत्तिः सानुमानमित्यर्थः । संबन्धति पाठपि संबध्यतइति संबन्धः' यथा च स एवार्थः। सामान्येत्यादि प्रत्यक्षव्यावृत्तस्वरूपकथनमात्रं न तु लक्षणान्तर्गतं वैयादिति। अनुमानवृत्तेरुदाहरणमाह। यथा देशान्तरप्राप्तेरिति। अत्रान्वयव्याप्तो दृष्टान्तश्चैत्रवदिति । व्यतिरेकव्याप्तौ च दृष्टान्तो विन्ध्यश्चाप्राप्तिरगतिरिति । अप्राप्तरिति पञ्चमीपाठस्तु लेखकप्रमादात् प्रत्यक्षसिद्धेनुमितिवैयादिति । आगमाख्यां वृत्ति लतति । प्राप्लेनेति । भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषरहितेनेत्यर्थः । मूलवभिप्रायेण श्रुतो वेति नोक्तं तदप्युपलक्षणीयम् । स्वबोधसंक्रान्तये स्वबोधसदृशबोधोत्पत्त्यमित्यर्थः। श्रोतुर्वत्तिरिति व्यक्त्रमणान्वयः । अत्राप्तोतार्थावर्षायणी शब्दजन्या वृत्तिरित्येवागमप्रमाणस्य लक्षणं, शेषं तु आगमशब्दव्युत्पत्तिमात्रमाप्तादागच्छति वृत्तिरित्यागम इत्याशयः । तदर्थविषयेत्यन्तविशेषणव्यावृत्त्याप्रमाणमागमत्तिं दर्शति । यस्यति। दृष्टानमितार्थकत्वाभावेनाश्रद्धेयार्थी ऽवेदाप्रतिपादनको यस्यागमस्य वक्ता स आगमः शास्त्रं चैत्यं वन्देत स्वर्गकाम इत्यादिरूपं लवते, प्रमाणत्तिजननासमर्थ इत्यर्थः । नन्वेवं दृष्टानुमितार्थकवनिर्मितस्य श्रुतिमूलस्याधु. निकागमस्यापि प्लवः स्यादत आह । मलेति ।
प्रमाणं लक्षयित्वा विपर्ययं लक्षति ।
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ विपर्यय इति लयनिर्देशोमिथ्याज्ञानमिति लक्षणं, मिथ्येत्यस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org