________________
योगवार्तिकम् ।
१९ पुरुषस्तु कूटस्थो न वृत्त्याकारतां भजते ऽतः कथं पुरुषश्चित्तत्तिसाक्षी स्यात् कथं वाविशिष्टः पौरुषेयो बोध इत्याशडायामाह । प्रतिसंवेदीति । संदिन्या बुद्धेः प्रतिसंवेदी तत्समानाकारः पुरुष इत्येतच्चतुर्थपादे 'चितेरप्रतिसंक्रमायास्तदाकारापत्ती स्वबुद्धिसंवेदन मिति सूत्रे उपपादयिष्याम इत्यर्थः । यद्यपि चितेः स्वयमाकारो नास्ति तथापि प्रतिबिम्बवशाढत्याकारापत्त्या वृत्तिबोध इत्यस्माभित्तिसारूप्यप्रसङ्गेन प्रागेव व्याख्यातम् । कश्चित्तु वृत्त्याख्यकारणसामानाधिकरण्येन बुद्धावेव प्रमाख्यं फलं जायते, चैतन्यमेव हि बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्यार्थीकारया तदाकारतामापदयमानं फलं, तच्च चिच्छायाख्यं चित्प्रतिबिम्बं बुद्धेरेव धर्म इति वदति । तत्र । पौरुषेयशब्दस्य यथाश्रुतार्थत्यागापत्तेः प्रतिबिम्बस्य तुच्छतया ऽर्थभानरूपत्वानुपपत्तेश्च प्रतिबिम्बस्य प्रकाशादार्थक्रियाकारि. तायाः क्वाप्यदर्शनाच्च । प्रतिबिम्बं हि तत्तदुपाधिषु बुद्धेर्बिम्बाकारपरिणाममात्रमिति । किंच परस्यरं प्रतिबिम्बस्य श्रुतिस्मृसिद्धतया चितेरेव वृत्तिप्रतिबिम्बोहितायाः फलत्वं युक्तं ज्ञानशब्देनात्मन एव प्रतिपादनात 'सत्यं ज्ञानमनन्तं ब्रह्म' 'ज्ञानमेव परं ब्रह्म' 'ज्ञानं बन्धाय चेष्यते' इत्यादिश्रुतिस्मृ. तिविति । बुद्धश्चिच्छायापत्तिश्चाहमित्यादिरूपैश्चितो भानार्थमेवेष्यते बुयारोहं विना साक्षात्स्वभाने कर्मकर्तृविरोधादित्युक्तमेव। अपि च बुद्धेरेव प्रमातृत्वे पुरुषो न सिध्येत् । वृत्तिसातितया पुरुषसिद्धिरिति चेत्, एवं सति वृत्तिद्रष्टुरेव वृत्त्यारूढार्थद्रष्तृत्वकल्पनाचिता न तु विम्बप्रतिबिम्बयोरुभयोरेव द्रष्टुत्वमर्थभेदेन कल्पयितुं युक्तं, गौरवादिति । किं च जानामीत्येवं बुद्धिवृत्ता भासमानं प्रतिबिम्बचैतन्यं स्वजेयं न संभवति कर्मकर्तृविरोधादतो बिम्बचैतन्ये भानमावश्यकमिति । अत्रायं प्रमात्रादिवि. भागः ॥
प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमााकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः सातिभास्याः स्युः करणस्यानपेक्षणात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org