________________
१६
योगवार्तिकम् । सामान्यविशेषाभ्यामत्यन्तभित्र एवार्थ इत्येतविरासायोक्तं सामान्यविशेषामन इति । अनेन चावयवी न निराकृतः किं त्ववििन सामान्यविशेषयोविभागलक्षणं तादात्म्यमुक्तं पश्चादवविव्यवस्थापनाति। "अनन्ता रश्मयस्तस्य दीपवनः स्थितो हृदि" । “बहुशाखा हनन्ताश्च बुद्धयोऽव्यव. सायिनाम्" इत्यादिस्मृतिभ्यो रश्मिशाखादितुल्यतालाभात । वृत्तिः प्रभावत द्रव्यमेवेति प्रागेवोक्तम् । सा वृत्तिरेव दीपप्रभावत् बाझार्थमुपसृत्य चक्षुरादोकीभावेन घटायाकारा भवति । स्वप्नध्यानादी घटायाकारतया चित्तवृत्तेरनुभूयमानत्वाद् बाह्ये ऽपि जानाकारः सिति । अत्रांशे बौदानामस्माकं चैकवाक्यत्वे ऽपि न साम्यम् । अस्माभिर्बाझार्थस्यापि स्वीकारादिति । प्रत्यक्षस्य लक्षणं कृतमिदानीं तस्य प्रमाकरणत्वेन प्रमाणत्वमुपपादयति । फलमिति । वृत्तिरूपस्य करणस्य फलं पुरुषनिष्ठश्चितत्तिविषयको बोधः, पुरुषार्थमेव करणानां प्रवृत्तेः । अयं च बोधो विषयदेशएव भवति विभुत्वात् । ननु अयं घट इति वृत्तेौधो घटमहं जानामीति रूपस्तस्य च पौरुषेयत्वे पुरुषस्य स्वतन्त्राकारेण परिणामित्त्वापतिरि. ति तत्राह । अविशिष्ट इति । स च बोधश्चित्तवृत्त्या सहाविशिष्ट इति वृत्तिसारूप्यसूत्रे उपपादित इत्यर्थः । अयं घट इत्याकारा बिम्बरूपा वृत्तिः कारणं तस्या एव वृत्तेश्चैतन्ये प्रतिबिम्बनाच्चैतन्यमप्ययं घट इत्याकारमिव सदोधाख्यं फलं भवतीति नाविशेषः शब्देन वक्तुं शक्यते, विकिभिरेवेक्षतीरादिमाधुर्यस्येव स्वयं विशेषो ऽनुभयते दृग्दृश्यादिवैधादिति भावः । पौरुषेयो बोध इत्याधाराधेयभावश्च गगने श्रोत्रमितिवद्विशिष्टाविशिष्टभेदेनोपपादनीयः । करणलक्षणं चात्र फलायोगव्यवच्छिन्न कारणवमिति। ननु रूपादिषु चक्षुरादीनामेव करणत्वं श्रुतिस्मृत्योरवगम्यतइति चेत्सत्यं, किं तु बुद्धिपत्याख्यप्रमान्तरं प्रत्येव तेषां करणत्वं न तु पौरुषेयबोधरूपां मुख्यप्रमा प्रति, प्रमाद्वयं च साये मूत्रितं 'द्वयोरकतरस्य वाप्यसविष्टार्थपरिछितिः प्रमेति । चक्षुरादीनां च वृत्ती करणत्वं व्यापारवस्करणत्वरूपं | कुठारादाविति शेषः । ननु विषयाकारतैव विषयमहणं चित्तस्थले दृष्टं
-
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org