________________
१७
योगवार्तिकम् । क्लिष्टालिष्टजातीयकाः संस्कारा इत्यर्थः । अस्य जीवभ्रामकस्य वृत्तिसंस्कारचक्रस्य स्तम्भने प्रलये च निरोध एवोपाय इत्याह । तदेवंभूतर्माित । तत्तिसंस्कारचक्रात्मकं चित्तमेवंभूतं निरोधावस्थमवसिताधिकार क्रमेण समाप्यमानाधिकारं सदात्मकल्पनात्माविभागेन निर्दुःखतया तिष्ठति व्युत्थानपर्यन्तम् । अथ वाभ्यासपाटवेनाखिलसंस्कारक्षये सति प्रलयमात्यन्तिकलयमेव गति विदेहकैवल्यं प्राप्नोतीत्यर्थः । निरोधसमाधेः पुनरनुत्थानमेव योगिनां मुक्तिरिति भावः । पूर्वसूत्रेण सह योजनार्थ ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तय इति पूरयित्वोत्तरं सूत्रं पठति ॥
प्रमाणविपर्ययविकल्पनिद्रास्मतयः ॥ ६ ॥ सुगमं सूत्रम् । तत्रेति पूयित्वोत्तरसूत्रमवतारयति । तत्र, तासु वृत्तिषु मध्ये ॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
अनधिगततत्त्वबोधः प्रमा तत्करणं प्रमाणमिति प्रमाणसामान्य लक्षणं सुगमत्वादकृत्वैव विभागः कृतः । परोक्तानि चेतराणि प्रमाणानि एवेवान्तभाव्यानीत्याशय इति । प्रत्यक्षं व्याचष्टे । इन्द्रियोति । इन्द्रियाण्येव नाडी चित्तसंचरणमार्गःतैः संयुज्य तद्गोलकद्वारा बाह्मवस्तुषपरक्तस्य चित्तस्यन्द्रियसाहित्येनैवार्थाकारः परिणामो भवति न केवलस्य चित्तस्य शङ्कपत्त्यादयाकारतायां नयनादिगतपित्तादयन्वयव्यतिरेकाभ्या,मतो रूपादिवृत्तिषु चक्षुरादीनामपि कारणत्वं शास्त्रषच्यते। अत्रोपरागादित्यन्तेन बाझ. वृत्तेः कारणमात्रंदर्शितं न तु तल्लक्षणे प्रवेशनीयम्। आत्मादिप्रत्यक्षाव्यापनादीश्वरप्रत्यक्षाव्यापनाच्च, तस्याजन्यत्वात् । अर्थस्येत्यनेन समारोपितस्वप्रतिषेधानविपर्ययेतिव्याप्तिः। विशेषावधारणप्रधानेति विशेषणादनुमा. नागमयोात्तिः। स्मतिव्यावर्त्तनाय द्विषति। उपरक्तवस्तुविषयेत्यर्थः।
उपलब्धभाष्यपुस्तकेषु इन्द्रियप्रणालिकयेति पाठदर्शनादत्रेन्द्रियागयेव प्रणालिकेति वक्तुं युक्तम् । अथवा इन्द्रियनाडोति वार्तिकसंमतो भाष्यपाठः। . १ प्रदर्शितमिति पाठान्तरम् । रा. शा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org