________________
योगवार्तिकम् । द्विजादीनां याजनादिवत् । लिष्टाश्चालिष्टाश्च लिष्टाक्लिष्टाः। निरोडव्या वृत्तयः क्लिष्टा वा अक्लिष्टा वा भवन्तु वत्यमाणाः पञ्चतय्यः पञ्चप्रकारा एवेति सत्रार्थः । वृत्तीनामसंख्यक्तितया ऽवयवार्थकत्वानुपपत्त्या तयपो लक्षणयात्र प्रकारवाचित्वं 'ताः पञ्चधा वृत्तय' इत्यागामिभाष्यात* इति। क्लिष्टवक्लिष्टस्यापि हेयत्वप्रतिपादनाय क्लिष्टाक्लिष्टविभागप्रदर्शनं, तत्र चायं क्रमोक्लिष्टा उपादाय क्लिष्टा निरोडव्यास्ततस्ता अपि परवैराग्येणेति । "सत्त्वेनान्यतमो हन्यात्सत्त्वं सत्त्वेन चैव ही"ति स्मरणात । तिष्टा व्याचष्टे । क्लेशहेतुका इति । त्रिगुणात्मकतया सर्वासामेव वृत्तीनां केशवत्वेन किष्टालिटवभागो नोपपदातइत्यतः क्लेशसंबन्धविशेषपरतया इत्यं व्याख्यायते। अत्र च हेतुः प्रयोजनं, केशश्चात्र मुख्य एव याझो दुःखाख्यः । तथा च क्लेशहेतुका दुःखलिका विषयाकारकृत्तय इत्यर्थः । केशजनकत्वे हेतुः कर्मत्यादि । कर्माशयप्रचयानां धर्माधर्मवासनासमूहाना क्षेत्री भता आलम्बनीभताः, क्लिष्टा इत्यर्थः । विषयाकारवृत्तिजन्यवृष्णाभिहतस्तद्वानाहं यतमानः परपीडानुग्रहाभ्यां धर्माधर्मावुपचिनोति ततश्च दुःखधारा भवतीति भावः । अक्लिष्टा व्याचष्टे । ख्यातीति । अनिष्टा अलेशलिकाः : ताश्च गुणाधिकारविरोधिन्यः गुणानां सत्त्वादीनामधिकारः कार्यारम्भणं तद्विरोधिन्यो ऽविद्याकामकादिरूपकारणनाशकत्वात् । ख्यातिविषया विवेकख्यातिसंबद्धा इत्यर्थः । ख्यातिसाधनस्यापि संग्रहाय विषयपदमिति । ननु सत्रकारेण तामसीनां सात्त्विकीनां च द्विविधानामेव वृत्तीनां निरोद्धव्यत्वमुक्तं न तु राजसीनां क्लिष्टाक्लिष्टरूपमिश्रवृत्तीनामिति न्यनतेत्याशय मिश्रवृत्तीनामुक्तास्वेवान्तवमाह । क्लिष्टप्रवाहेति । क्लिष्ट शेषीभूता अपि अक्लिष्टरूपास्तदंशा यपि लिष्टच्छिद्रेषु सन्ति तथाक्लिष्टा एव अक्लिष्टशब्देन रहीता भवन्ति । एवमलिष् कद्रेष्वपि क्विष्टाः क्लिष्टशब्देन गृहीता इत्यर्थः । तथा च राजस्या मिश्रवत्तरंशाभ्यामंशिन्योः प्रवेश इति न न्यनता। इंदानी वृत्तिनिरोधस्य फलं वक्तुमादौ संसारानर्थबीजं संस्कारं दर्शयति । तथाजातीयकाइति ।
* पञ्चधेत्यर्थकथनमात्रं न तु शब्दत्तिव्याख्यानं तयपः प्रकारे स्मरणात किं तुतयषवयवे एवेति वाचस्पतिमिअपमतयः। रा. शा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org