________________
योगवार्तिकम् । भावात् । ननु स्वस्वामिभावस्य कथमनादित्वं स हि भोग्यभोक्तृभावरूपतया प्रलये न तिष्ठतीति । मैवम् । अभुज्यमानधनऽपि सुषुप्तस्य स्वस्वामिभावेन स्वत्वस्वामित्वयोतिरिक्तपदार्थत्वात् स्वरूपसंबविशेषत्वाद्वा प्रतियोग्यनुयोगिभाववत् । अथ वा स्वभुक्तवृत्तिवासनावत्त्वमेव बुदो पुरुषस्य स्वत्वमीदृशो भोग्यभोक्तभाव एव च तान्त्रिकैाग्यभोक्तयोग्यतेत्युच्यते । 'चिदवसानो भोग' इति सांख्यसूत्रोक्तस्य सुखदुःखानुभवरूपभोगस्य पुरुषधर्मत्वादिति । स च स्वस्वामिभावश्चित्तपुरुषयोरनादिरेव स्वीक्रियते । न च महत्तत्वरूपस्य चित्तस्य कार्यतया कथं तद्धर्मस्यानादित्वमिति वाच्यम् । अन्तःकरणस्य वृक्षवत् कार्यावस्थायामेव महत्तत्वपरिभाषास्वीकारात बीजावस्था तु प्रकृत्यंशत्वरूपा नित्यैव, अन्यथा धर्माधर्मसंस्कारादीनामा. श्रयं विना प्रलये ऽवस्थानानुपपत्तेः प्रकृतिमात्रस्य तदाश्रयत्वे तत्कार्यभोगस्मृत्यादेरपि तनिष्ठत्वस्यैवाचित्यात अन्तःकरणकल्पनानर्थक्यमन्तःकरणधर्मत्वं धर्मादीनामिति सांख्यसूत्रस्य यथावतार्थानुपपत्तिश्चक्रेत । अथैवं बुद्धितत्कारणयोरुभयोर्धादिकल्पने गौरवमिति चे,दृष्टानुसारितया ऽस्य गौरवस्य प्रामाणिकत्वात् । यथा हि परमाणुपर्यन्तमेव घटे पाकेन रूपं जायते तद्घटभड़े च तैरणुभिर्घटान्तरं तद्रपकं भर्वात तथैव प्रकृतिपर्यन्तमेव बुद्धा धर्मादिकमुत्पदाते तद्धिनाशे च तत्प्रतिभिः तादृश धर्मादिमदेव बुद्धान्तरमुत्पादाते कारणगुणप्रक्रमादिति दिक् । कृत्या दिलक्षणा अपि वृत्तयः सन्तीत्यागामिसूत्रस्य । नतां परिहत्तुं चित्तस्येत्यन्त पयित्वोत्तरसूत्रमवतारयति । ताः पुनरिति । चित्तस्य बहुत्तिकत्वे स. यपि ता निरोडव्या वृतयः क्लिष्टाक्लिष्टरूपा वयमाणाः पञ्चतय्य एवेति सूत्रेण सहान्वयः। प्रमाणादिरूपवयमाणवृत्तिपञ्चर्कानरोधेनैव तत्कायर्याणामन्यवृत्तीनां निरोसिद्धिरिति भावः ॥ ।
वृत्तयः पञ्चतय्यः लिष्टाऽक्लिष्टाः ॥ ५ ॥ यैः प्रमाणादिलक्षणव्यापारैः चित्तं जीवति ते तवृत्तय उच्यन्ते १ प्रकृत्यं शसत्त्वरूपति पाठान्तरम् । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org