________________
१४
योगवार्तिकम् ।
बिम्बाकारो बुद्धेः परिणाम एव स च सातिभास्य इति । एतेन नीरूपत्वाद् बुद्धिपुरुषयोरन्योन्यं प्रतिबिम्बनं न संभवतीत्यपास्तम् । उभयत्रोभयाकार बुद्धिपरिणामस्यैव प्रतिबिम्बशब्देनात्र विवक्षितत्वात् । जलादावपि सूर्या. झाकारबुद्धिपरिणामस्यैव सूर्यादिप्रतिबिम्बितत्वाच्च । तदेवं बुयात्मनः परस्परप्रतिबिम्बरूपाद्वोषादेवकताभ्रमोऽहं कती सुखी जानामीत्यादिरूप इति । तदेतत्परस्परं प्रतिबिम्बं सांख्यकारिकायामिवशब्दाभ्यामुक्तं “त. स्मात्तत्संयोगादचेतनं चेतनादिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तव भवत्युदासीन" इति दिन। यच्चैतच्चैतन्ये * बुद्धित्तिसारूप्यमुक्तं चैतन्यस्य बुद्धाकारतारूपम् । इदमेध चैतन्यस्यार्थीपरक्तं वृत्तिभानं तस्य चाकारोऽयं घट इत्यादिरूप एव, अन्यथा वृत्तिसारूप्यानुपपत्तेः । न तु वत्तिबोधस्य पृथगाकारोस्ति घटमहं जानामि दुःखिताहमित्यादिकं तु बुद्धेरेवाकारान्तरं पुरुषस्यापरिणामित्वाद् अचान्तत्वाच्चेति । तथा च सूत्रकारो वयात 'चित्तरप्रतिसंक्रमायास्तदाकारापत्ता स्वबुद्धिसंवेदन मिति । ननु वृत्तितट्ठोधी र्याद घटदीपाविधात्यन्तभिन्नी न तु चिज्जडात्मकर्मावभक्तमेकं वस्तु र्माणकान्तिवत् हि तच्चित्तवृत्तीनां प्रतिनियततत्तत्पुरुषमात्रबो. ध्यत्वे किं नियामकमित्याकाङ्कायां प्रतिनियतयोरेव चित्तात्मनोरनादिः स्वस्वामिभावसंबन्धस्तवियामक इति प्रतिपादति । चित्तमयस्कान्ते. त्यादिना संबन्धो हेरित्यन्तेन । तत्राप्यादावनादिं स्वस्वामिभावं युक्त्योपपादति । चितर्माित । यथायस्कान्तमणिः स्वस्मिन्नेवायःसबिधीकरणमा. त्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन स्वामिनः स्वं भवति भेोगसाधनत्वात तथैव चित्तमपि अयःसदृर्शावषयजातस्य स्वस्मिन् सबिधीकरणमा. त्रात दृश्यत्वरूपमुपकारं कुर्वत पुरुषस्य स्वामिनः स्वं भवति भेोगसाध. नत्वात् । अतश्चित्तपुरुषयोरनादिः स्वस्वामिभावः संबन्ध इति शेषः। ततः किमित्यत आह । तस्मार्दाित । तस्मात् स्वस्वामिभावासदत्वात् स एवा. नादिसबन्धः पुरुषस्य चित्तत्तिदर्शने हेतुरित्यर्थः । अतो न पचित्तेन परस्य वृत्तिसारूप्यं भवति, कदापि तद्वत्त्यबोधेन तयोः स्वस्वामि संबन्धा. __* अत्रेतच्छद्वः पुस्तकान्तरे नास्ति। स्वस्वामिभावसंबन्धेति युक्तः पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org