________________
१३ ।
योगवार्तिकम् । यथा सजलघटादिप्रकाशः सूर्यसंबन्धात्, अतः किमर्थं चैतन्ये वृत्तितिबिम्बं वृत्ती वा वक्ष्यमाणचैतन्य प्रतिबिम्बं कल्प्यते । मुख्यहं जानामीति बुद्धिपुरुषयोरेकताभमस्तु परस्परप्रर्तािबम्बं विनापि दूरस्थवनस्पत्योरिव दो. पवशादेव संभवति तत्कथं बुद्धिपुरुषयोर्वत्तिसारूसिद्धिरिति । अत्रोच्यते। चेतने तावदिप्रतिबिम्बमवश्यं स्वीकार्यम् । अन्यथा कूटनिविभुचैत न्यस्य सर्वसंबन्धात्सदैव सर्व वस्तु सर्वज्ञायेत नहि सूर्य संबन्धे सति घटायप्रकाशो दृष्ट इति । न चाज्ञानाख्यं ज्ञानप्रतिबन्धकं चैतन्ये कल्पनीय, नित्यज्ञानस्य प्रतिबन्धासंभवात् “दुःगजानमया धर्माः प्रकृतेस्ते तु नात्मन" इत्यादिभिरात्मन्यज्ञानप्रतिषेधाच्च । अतोऽर्थभानस्य कादा. चित्कत्वायुपपत्तये ऽाकारतवार्थग्रहणं वाच्यं बुद्धा तथा दृष्टत्वात्, बुद्धा. वपि हि संयोगमात्रस्यार्थग्रहणत्वे अतीन्द्रियस्याप्यर्थस्य बुद्धिग्राह्मत्व. प्रसङ्गात् । सा चााकारता बुद्धो परिणामरूपा स्वप्नादौ विषयाभावेन तत्म बिम्बासंभवात्, पुरुषे च प्रतिबिम्बरूपा विद्यमानत्तिमात्रयाहके पुंसि प्रतिबिम्बेनैवोपपत्तेरिति । न केवलं तकादेव चिति बुद्धेः प्रतिबिम्ब कल्य्यते किंतु "तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रमाः ॥ यथा संलक्ष्यते रक्तः केलः स्फटिको जनैः । रज्जकायुपधानेन तद्वत्परमपरुष” इत्यादिस्मृतिशतैरपीति । न चैवं संस्कारशेषा बुद्धिः पुरुषे प्रतिबिम्बिता भायादित्यसंप्रज्ञातयोगानुपपत्तिरिति वाच्यम् । परमाणोरिव वृत्त्यतिरिक्तानां प्रतिबिम्बसमर्पणासामय॑स्य फलबलेन कल्पनात् । अनादिस्वस्वामिभावस्यैव प्रतिबिम्बनियामकतया वयमाणत्वात्तु न परबुद्धिवत्तभीनम् । अत एव पुरुषार्थवत्येव बुद्धिः पुरुषस्य विषय इति सांसद्धान्तो विवेकख्यातिविषयभोगी च पुरुषार्थाविति । यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्ब स्वीकार्यमन्यथा चैतन्य त्य भानानुपपत्तेः स्वयं साक्षात्स्वदर्शने कर्मकर्तृविरो. धेन बुद्ध्यारूढतयैवात्मनो घटादिवज जेयत्वाभ्युपगमात् । तथा च वयात सूत्रकारो 'द्रष्टदृश्यापरक्तं चित्तं सर्वार्थ सित । बुद्धावात्मप्रतिबिम्बमेव च तान्त्रिका बुद्देश्चिच्छायापत्तिरित्यात्माकारतेति प्राहुः । प्रतिबिम्बोपाधी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org