________________
योगवार्तिकम् । नम” इति विष्णुपुराणादिभ्यः । एतदुक्तं भवति । यद्यपि पुरुषश्चिन्मात्रो ऽविकारी तथापि बुर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि ता. न्येव पुरुषस्य वृत्तयः । न च ताभिरवस्तुभूताभिः परिणामित्वं, स्फटिकस्येवा. तत्त्वतोऽन्यथाभावादिति । तदुक्तं साये, जपास्फटिक्योरिव नोपरागः किं त्वभिमान इति । सूत्रकारोऽपि वयात 'चितरप्रतिसंक्रमायास्तदाकारा. पत्ता स्वबुद्धिसंवेदनसित । एतेन सुखदुःखमोहगुणकत्तिसारूप्याद् व्युत्थाने चितिर्राप दुःखादिमतीव यद्भवति तदेव चितेर्तुःखभोगो दुःखाभ्यवहरणरूपः, प्रतिबिम्बरूपदुःखहानमेव चासंप्रज्ञातस्य फलमिति सूत्रद्वयेन सिद्धम् । ये तु अहं सुखीदुःखीत्यादिप्रत्ययादात्मन एव पारमार्थिकी वृत्तिमिच्छन्ति तएवं प्रत्याख्येयाः । स्वत एव चेदात्मनः परिणामास्तहि सर्वावयवावच्छेदेन सर्वदा वृत्तिप्रसङ्गानिमाक्षादिप्रसङ्गः । यदि * मनःसंयोगो निमित्तं तर्हि लाघवादेकेन मनस्त्वेनैव हेतुतास्तु आत्ममनस्तत्संयोगानां त्रयाणां हेतुत्वे गौरवात् । अनुमानं च अर्थाकार. परिणामसुखादिकमन्तःकरणापादानकं बाधकाभावे सति तदन्वयव्यति. रेकानुविधायित्वात् मनःसंयोगदिति । भोगे भिचारवारणाय सत्यन्तं, बुद्धेः स्वभोक्तृत्वे च बाधकं कर्तृकर्मविरोधं सूत्रकारो वत्यति । अहं कती सुखीत्यादि प्रत्ययास्तु अहं गौर इत्यादिभ्रमशतान्तःपातित्वेनाप्रामाण्यज्ञानास्कन्दिता नोक्तानुमानस्य बाधकाः, प्रत्युत “प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पति तथात्मा. नमकतारं स पश्यति" इत्यादि स्मृत्युपोलितेनोक्तानुमानेनैव + बाध्यन्ते देहभिवात्मसाधरनुमानरहं गौर इत्यादिप्रत्ययति दिक। स्वोक्ते बुद्धिपुरुषयोवृत्तिसारूप्ये पञ्चशिखाचायंसूत्रं प्रमाणयति । तथा च सूत्रमिति । ख्यातिर्बुद्धिर्दर्शनं पुरुषस्य इत्यन्तं च सूत्रम् ।। तथा च ख्यातिरेव दर्शनमित्येकमेव एकाकारमेव दर्शनं भ्रमो लोकानामिति सूत्रार्थः । इतिशब्दश्चान्यो भाष्ययोजनार्थ पूरणीयः । ननु सविषयवृत्तेः स्फुरणं चेतनसंयोगादेव भवतु . . यदि चेति पाठान्तरम् । | + ते बाध्यन्ते इति पुस्तकान्तरे पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org