________________
योगवार्तिकम् ।
११
स्वस्वरूपेऽवस्थानं तथा वृत्त्यपाये पुरुषस्य वृत्तिप्रतिबिम्बशन्ये स्वस्वरूपे ऽवस्थानमिति भावः 1 यथा च तदा संस्कारशेषबुदुर्भानं न भवति तथोत्तरसूत्रे वक्ष्यामः । तथा च कूटस्य एव पुरुषो व्युत्यान तदानीमपि प्रकाशस्वरूप एव तिष्ठति । येोगलक्षणमप्येतद्धेतुनिरोधत्वमेव । तत्र च वृत्त्यात्मकदुःखाभावः पुरुषार्थ इति भावः । सायं पुरुषाथौ भाष्यकारेण सूचितो यथा कैवल्यइत्यनेन । कैवल्ये हि दुःखनिवृत्तिरेव पुरुषार्थ इति वक्ष्यति 'हेयं दुःखमनागत' मिति सूत्रेणेति । क्रमेण चरमासंप्रनाते ऽशेषसंस्कारक्षयात् चित्तेन सह वृत्तीनामात्यन्तिकनिरोधे सत्यात्यन्तिकं स्वरूपावस्यानं मोक्षाख्यमिति । ननु तदानीं दुःखाभावे ऽन्यदा दुःखमस्त्रीत्यायातं तथा चापरिणामित्वानुपपत्तिरित्याशङ्कां परिहरति भाष्यकारः । व्युत्थानेति । व्युत्थार्नाचत्तदशायां तु चितिस्तथा ऽपि स्वरूपेण तिष्ठन्ती न तथा नासंप्रज्ञातस्य कैवल्यस्य च समानरूपेत्यर्थः । सूत्रान्तरमवतारयितुं पृच्छति । कथं तति । कूटस्यापि चितिः केन प्रकारेण तर्हि व्युत्थाने तिष्ठतीत्यर्थः । असंप्रज्ञातापेक्षया संप्रज्ञातोप्यत्र व्युत्थानं बोध्यम् । अत्र प्रत्युत्तरं सूत्रं हेतुपदमध्याहृत्य पठति । दर्शितविषयत्वादिति ।
वृत्तिसारूप्यमितरच ॥ ४ ॥
इतरत्र व्युत्थाने. चित्तेन सह द्रष्टुर्वृत्ता सारूप्यमित्यर्थः । व्यूत्याने हिं बिम्बप्रतिबिम्बरूपयोर्बुद्धिपुरुषवृत्त्याः सारूप्यं, तदेतद्व्याचष्टे । व्युत्थानेति । इतरत्र व्युत्थाने याश्चित्तस्य वृत्तयो दीपस्य शिखाइव द्रव्यरूपा भङ्गुरा अवस्थापरिणामाः मूषानिषिक्तद्रुतताम्रवत् स्वसंयुक्तार्थकारास्त्रिगुणकार्यत्वात् सुखदुःखमोहाश्रयतया शान्तघोरमूढाख्या भवन्ति ताभिरविशिष्टा अविलक्षणा वृत्तयो यस्य पुरुषस्य स तथा । वृत्तिश्च गुणो न भवति " भागगुणाभ्यां तत्त्वान्तरं वृत्तिः संबन्धार्थं सर्पती" ति सांख्यसूत्रात् । भागो विभक्तांशो ऽग्निविस्फुलिङ्गवदिति । कुतः पुनर परिणामिनो वृत्तिस्तत्रोक्तं दर्शितविषयत्वादिति । बुझा निवेदितविषयत्वादित्यर्थः । निवेदनं च स्वारूढविषयस्य प्रतिबिम्बरूपेण चित्याधानम् । “गृहीतानिन्द्रियैरथानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org