________________
१०
योगवार्तिकम् । तदवस्यं निरोधावस्यं चित्तं संस्कारोपगं संस्कारमात्रानुसारि संस्कारमात्ररूपेण प्रशान्तवाहि भवति सेयं प्रशान्तवाहिता स पूर्वोक्तो निर्बीजः समाधिः निरोधयोगो न किचित्तत्र योगे ज्ञायते इति विग्रहेणासंप्रज्ञात. नामा चेति वाक्यार्थः। असंप्रज्ञातयोगे चित्तबीजस्य संस्कारस्य तत्त्व. ज्ञानजन्यपर्यन्तस्याशेषतो दाहानिर्बीजसंज्ञा तस्येति भावः । बीजदाहादेव चास्य निरोधस्य स्वरूपावस्थितिहेतुतया क्लेशकर्मादिपरिपन्यितया च लक्षणसतिरित्याशयः । सुषुप्तौ च निद्राख्यचि. त्तत्तिसत्त्वाचासंप्रजातलक्षणातिव्याप्तिस्तत्कालीनविरोधस्य क्लेशादिपरिपन्थित्वाभावाच्च । एतेन यदाधुनिकवेदान्तिनवा असंप्रजातोपि निर्वि कल्पमात्मज्ञानं स्वरूपसद्धित्तिरूपं तिष्ठतीति वदन्ति तदप्रामाणि कात्वेनैतद्वाविरोधेन चोपेतणीयम् । “युजीत योगी निर्जित्य त्रीन गुणान् परमात्मनि । तन्मयश्चात्मना भत्वा चित्तिपि संत्यजेदि"ति मार्कण्डेय. पुराणादा ऐश्वरयोगेपि वृत्तिशून्यत्वावगमाच्च । निर्विकल्पं त्वात्मज्ञानं संप्रज्ञातकालण्व भवति शब्दार्थज्ञानविकल्पशन्यस्य संप्रजातकालीनज्ञानस्यैव निर्विकल्पकस्य लयस्य मानत्वात्। योगट्ठयमुपसंहति। द्विविध इति। नन् चित्तवृत्तिनिरोधे कः पुरुषार्थ इत्याकाइया योगलक्षणपरणाय च प्रव. तमानं योगस्य फलप्रतिपादकं सूत्रमधिकप्रश्नमुखेनोत्यापति प्रसङ्गादा. त्मनः कोटस्थ्यपि प्रतिपादयितुम् । तदवस्यइति । ननु असंप्रज्ञातावस्थे चेसि सति बुद्धिबोधात्मा बुद्धिविषयकबोधस्वरूपो बुद्धिसाक्षी पुरुषः किंस्वभावः केन रूपेण तिष्ठति किं व्युत्थानइव तदानीमपि प्रकाशरूप एव तिष्ठति वृत्त्याख्यदृश्याभावादेव तु न पश्यति अथ वा काष्ठवदप्रकाशरूप एव आत्मा तदा तिष्ठति व्यत्थानकाले तु निमितविशेषात् प्रकाशरूपेण परिणमते किं वा दशातये दीपवत्रश्यतीत्यर्थः । एतेष्वादापदं सत्रेण सिद्धान्तति ।
तदा द्रष्टःस्वरूपेवस्थानम् ॥ ३ ॥ तदा ऽसंप्रज्ञातयोगकाले द्रष्टः चितिशक्तेः पुरुषस्य स्वरूपे निर्विष. यचैतन्यमात्रे ऽवस्थानमित्यर्थः । यथा नपापाये स्फटिकस्यालोहिते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org