________________
___ योगवार्तिकम् । विवेकख्यातिनिष्ठा विवेकख्यातिवैराग्ये हेतुस्तामादौ दर्शयति । ख्यातिरितीत्यन्तेन । चितिशक्तिः पुरुषाख्या न परिणामिनी पर्वधर्मापाये धर्मान्तरोत्पत्तिः परिणामस्तद्रहिता कूटस्यनित्या परमार्थसत्येति यावत् । लोकेर्थप्रकाशनरूपे फलण्व चैतन्यशब्दः प्रयुज्यते चैतन्यफलोपधानं च न सर्वदा सर्वपुरुषस्तीत्याशयेन शक्तिपदोपादानं, तथा च शक्तिरूपेणावस्थिता चितिरित्यर्थः । चितिश्च न गुणः किं तु प्रकाशस्वरूपं द्रमिति 'द्रष्टा दुशिमात्र इति सत्रे विस्तरतः प्रतिपादयिष्यामः । यतोपरिणामिनी अत एव चितिशक्तिरतिसंक्रमासंचारा, यथा बुद्धिर्विषयं गच्छति तद्ग्रहणार्थं नैवं चिति. रक्रियत्वात् । अथ वा नास्ति प्रतिसंक्रमः सो विषयेषु यस्या इत्यप्रतिसंक्रमा निलेपति यावत् । नन्वपरिणामित्वे चात्मनो विषयाकारत्वाभावात् कथं विषयस्फरणं तत्राह । दार्शविषया, दर्शितो बुद्ध्या निर्वादतो विषयो यस्य इति वियहः । विषयैः सह बुद्धित्तिश्चिता प्रतिबिम्बिता सती भासतइति भावः। वृत्तिसारूप्यमितरत्रेति सूत्रे चैतढाक्तं भविष्यति । यतो ऽपरिणामिनी अत एव शुद्धानन्ता च सूखदुःखमोहायात्मकाशुद्धिरहिता पूर्णाच, उक्ताशुढेः परिणामरूपत्वात सक्रियस्यैव परिच्छन्नत्वाच्चेति। दूयं विवेकख्यातिः धर्मधर्म्यभेदात्तद्वती वृत्तिः सत्त्वगुणात्मिका सत्त्वगुणस्य कार्या अतश्चितिक्तितो विपरीता परिणामिनी स्वयमेव विवेकाका. रिणी प्रतिसंक्रमवती दीपशिखावत् विषयेषु सर्पणात्तथा जडा तथा सुखदुःखादाशुद्धिमती परिच्छिना च इत्यतोऽनात्मत्वादिदोषदर्शनात तत्फलसिद्धेश्च विवेकख्यात्यां विरक्तं प्रत्युत्पनालंप्रत्ययं चित्तं तामपि ख्याति निरुद्धि आवृणोति विलापयतीति यावत् । परवैराग्येण हेतुना चित्तस्य सा वृत्तिः, स्वयमेव विलीयते यथा निद्रादोषण सुषप्ती जायदादि. त्तिरिति शर्करास्वादेनैव गुडदोषा अभिव्यज्यन्तइत्यतो विवेकख्याते. दोषदर्शने पुरुषगुणदर्शनमुपयुज्यतइति भावः । तथा यावदृत्तिदोषालिप्तत्वेन वृत्तिवैधर्म्यण रत्तिभेदत आत्मा न दृश्यते तावदोषदर्शनेऽपि आत्मा स्वभ्रमात् त्तिवैराग्यं न घटते आत्मत्त्वेनैव परमप्रियत्वात अत आत्मवृत्त्योरुभयोरेव गुणदोषाभ्यां विविच्य दर्शनं वृत्तिवैराग्ये हेतुरित्याशयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org