________________
योगवार्तिकम् ।
I
I
सत्त्वप्राधान्यप्रतिपादनाय पुनरुक्तं, प्रख्यारूपमिति च तेजः सत्त्वव्यावर्त्तनायोक्तं, तथा च प्रख्यास्वभावं चित्तरूपं सत्त्वं स्वोपसर्जनभूताभ्यां रजस्तमभ्यां संसर्गेण क्षिप्तावस्थायार्माणमा दोश्वर्ये शब्दादिविषये चानुरक्तं भवतीत्यर्थः । अतः क्षिप्तावस्यस्य वृत्तिनिरोधस्य स्वरूपावस्थानाहेतुत्वात् रागादिक्लेशा परिपन्यित्वाद्वा न तत्रातिव्याप्तिरिति भावः । क्षिप्तावस्थायामतिव्याप्तिं परिहृत्य मूढावस्थायामपि तां परिहरति । तदेव तमसेति । उपगमुन्मुखंतत्प्रियमित्यर्थः । भावस्तु पूर्ववत् । विक्षिप्तावस्थायामतिव्याप्तिं परिहरति । तदेव प्रक्षीणेति । मोहस्तमाद्रव्यं कार्यकारणाभेदात् तदेव दर्पणस्य मलववित्तसत्त्वस्यावरणं प्रक्षीणं यत्र तत्प्रक्षीणमोहावरणं सर्वतः प्रयतमानं सर्वविषयाकारवृत्तिमद् एवंभूतं हिरण्यगर्भादीनां चित्तं रजोलेशेन संभेदाद्विक्षिप्तं सद्धर्मादिचतुष्टयप्रियं भवतीत्यर्थः । अत्रापि भावः पूर्ववदेव बोध्यः । अवस्थात्रयेतिव्याप्तिं परिहृत्य एकाग्रनिरुद्धावस्ययोर्लक्ष्यये । लक्षणं क्रमेण योजयति । तदेव रजोलेशेनेत्यादिना । विक्षेप हेतुना रजोलेशेनापि मनापतत एव स्वरूपप्रतिष्ठं स्वाभाविकेन रूपेण प्रसादादिना सम्यगवस्थितं निर्मलदर्पणवत् अतश्च सत्त्वपुरुषयोर्बुद्ध्यात्मनोर्विवेकख्यातिमात्रं तन्मात्रवृत्तिकं सत् धर्ममेघध्यानमात्र प्रियं भवति न तु क्लेश प्रियैश्वर्य. प्रियमित्यर्थः । धर्ममेघध्यानं किमित्याकाङ्गायामाह । तत्परमिति । तदुर्ममे - घाख्यं ध्यानं परमं प्रसंख्यानं तत्त्वज्ञानं विवेकख्यातेरेव पराकाष्ठेति योगिनो वदन्तीत्यर्थः । तथा चेयमेकाग्रता सत्त्वपुरुषान्यता ख्यातिरूपिणी दृष्टस्वरूपावस्थाने हेतुः क्लेशकर्मादिपरिपन्थिनी चेति योगलक्षणाक्रान्तेति भावः । धर्ममेघसमाधिश्च सूत्रकारणैव वक्ष्यते । यदाप्यस्मितानुगत एव संप्रज्ञातयोगे. सत्त्वपुरुषान्यताख्यातिरस्ति न वितकानुगतादौ तथाप्यनेनैव तेप्युपलतणीया एतद्भूतत्वात्तेषामिति । निरुद्धावस्यायामपि लक्षणं योजयत्रेव सकारणस्य निरोधस्य स्वरूपमाह । चितिशक्तिरित्यादिना । संप्रज्ञातकाले संसारहेतुत्वादिदोषदर्शनादेवेतरवृत्तिनिरोधो जातस्तस्माच्च सिद्धायां विवेकख्यातिनिष्ठायां विवेकख्यातेरप्यनात्मत्वसाक्षात्करणात् तत्फलसिद्धे. श्च तत्रापि वैराग्यं भवति ततः सर्ववृत्तिनिरोध इति प्रक्रिया । तत्र यादृश
८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org