________________
योगवार्तिकम् । परं लक्षणपरतयोत्तरसूत्रमवतारयति । तस्य लक्षणानिधित्स्यति । तस्य द्विविधस्य योगस्य, उक्तातिव्याप्तिनिराकरणान्यथानुपपत्त्या सूत्रद्वयनैव लक्षणसमाप्तिर्भविष्यतीति सर्चायतुमभिधित्सयेत्युक्तमन्यथा हि तस्य लक्षणसूत्रं प्रववृते इत्येतावन्मात्रमुच्येत ॥
योगश्चित्तत्तिनिरोधः ॥ २॥ चित्तमन्तःकरणसामान्यमेकस्यैवान्तःकरणस्य वृत्तिभेदमात्रेण चतुधात्र दर्शने विभागात् तस्य यावल्लयमाणा वृत्तयस्तासां निरोध. स्तासां लयाख्योधिकरणस्यैवावस्थाविशेषो ऽभावस्यास्मन्मते ऽधिकरणावस्थाविशेषरूपत्वात, स योग इत्यर्थः । नन्विदं लतणं संप्रज्ञातस्याव्यापकं तत्र येयाकारवृत्तिस त्वादित्याशय भाष्यकार आह । सर्वशब्देति । सर्वत्तिनिरोध इत्यवचनादित्यर्थः । नन्वेवं पूर्वोक्तातिव्याप्तिःक्षिप्तादिपि यत्किंचित्तिनिरोधादिति चेत्र । तदा द्रष्टुः स्वरूपे ऽवस्था. नमिति वक्ष्यमाणसूत्रसाहित्येनैवास्य लक्षणत्वात् । तथा च द्रष्ट्रस्वरूपा. वस्थितिहेतुश्चित्तवृतिनरोधः क्षिप्तादावस्यासु नास्तीति नातिव्याप्तिः, संप्रज्ञातस्य च स्वरूपास्थितिहेतुत्वमसंप्रजातद्वारास्त्येवेति । परे तु सिणोति चक्लेशानिति पर्वभाष्यानुसारेण क्लेशकमादिपरिपन्यित्वं निरोधवि. शेषणं परणीयं तथा च केशक्रमादिपरिपन्यित्वे सति चित्तत्तिनिरोधत्वं योगद्यसाधारणं लक्षणमित्याहुः । अस्य च लक्षणस्य क्षिप्तादिमित्रयेऽतिव्याप्तिनास्तीत्यत्र हेतुं क्रमेण प्रतिपादयति । चित्तं हीत्यादिना । प्रख्या तत्त्वज्ञानमनेन सर्वे सात्त्विका गुणा उपलतिताः। प्रवृत्तिः कर्म, अनेन सर्व राजसा गुणा यामाः । स्थिति त्त्याख्यगतिशन्यता निद्रेति यावत, अनेन सर्वे तामसा गुणा याहाः। एते क्रमात् सत्त्वरजस्तमाख्यानां द्रव्याणां धर्माःपराश्रितत्वात रूपादिवद्गुणा इत्युच्यन्ते तदानयास्तु सत्त्वादिद्रव्याणि रज्ज्वारम्भकतन्तुवदेव गुणा इत्युच्यन्ते,तथा च प्रख्यादिस्वभावकत्वात् चित्तं त्रिगुणं सत्त्वादिगुणत्रनिर्मितं रज्जुदित्यर्थः । ततः किमित्यत आह । प्रख्यारूपं हीति। हिशब्दों वाक्यालङ्कारे अवधारणे वा। चित्तसत्त्वमिति । चित्तस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org