________________
योगवार्तिकम् । तहेतुत्वसिढेरविद्याकामकादिनिवृत्ती हेत्वभावेन पुनः संसारानुपपत्तेश्च । अत्रोच्यते । जाने जाते ऽपि प्रारब्धकर्मणा देहधारणस्यावश्यकत्वेन तदानीमपि बाह्याभ्यन्तरवृत्तिभिर्यत् दुःखं न जायते एतदप्यन्ततो योगद्वयस्य फलस्ति । तथाहि वात भाष्यकारः सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिका अत एताः सर्वा वृत्तयो निरोद्धव्या इति । किं च ज्ञानस्य यथा कर्मक्षयहेतुत्वमस्ति तथा योगस्यापि “विनिष्यन्नसमाधिस्तु मुक्तिं तत्रैव ज. न्मनि । प्राप्नोति योगी योगाग्निदाधर्मचयोचिरात्" इत्यादिवाक्यशतेभ्यः । तथा च कर्मक्षयद्वारा ज्ञानस्येवासंप्रज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्धं तत्र चासंप्रज्ञातयोगेनाखिलसंस्कारदाहकेन प्रारब्धकमातिक्रम्यतइति ज्ञानाद्विशेषः । ज्ञानस्य हि प्रारब्धनाशकत्वे बाधिकास्ति तस्य तावदेव चिर'. कित्यादिश्रुतिर्जीवन्मुक्तिश्रुतिस्मृतयश्च । योगस्य प्रारब्धनाशकत्वे बाधक नास्ति प्रत्युत दग्धकर्मचयोचिरादित्येव स्मर्यते, अतः प्रारब्धमपि कर्म कर्मविपाकोक्तप्रायश्चित्तादिवदेवातिक्रम्य झटिति मोचनमेव योगस्य फलम् । अन्यच्च योगद्वयेनाखिलसंस्कारतये भोगसंस्कराख्यसहकार्यभावात् प्रारब्धं कर्मापि यत्फलातमं भवति इदमपि योगफलम् । तदुक्तं मोक्षधर्म, 'नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बल' मिति । बलं प्रारब्धस्यातिक्रमण स्वेच्छया शीघ्रमातहेतुः । अपि च वृत्तिनिरोधात्मको योग एव दुःखनिवृत्त्यात्मकमोक्षे सातादे॒तुः पुरुषे दुःखस्य चित्तवृत्त्योपाधिकत्वात उपार्धािनवृत्तिश्चौपाधिनिवृत्ती चरमकारणमतो ज्ञानेन न योगस्यान्यथासिद्धिः ज्ञानवैराग्यकर्मक्षयादीनां वृत्तिनिरोधाख्यचरमकारणद्वारैव दुःखात्यन्तोच्छे. दहेतुत्वात वृत्त्यत्यन्तनिरोधस्तु चरमासंप्रज्ञाते भवति यत्र संस्कारस्यात्यन्ततयेण चित्तस्य विलयान्मोतो भवति । तथा च द्वारद्वारिभावेनापि ज्ञानस्येव संप्रज्ञातयोगस्यापि मोक्षहेतुत्वं सिद्ध,मसंप्रज्ञातयोगस्य च साक्षान्मोतहेतुत्वं तदा द्रष्टुः स्वरूपेवस्थानमिति सूत्रकारः स्वयं वयति ‘मुक्तिहित्वान्यथाभावं स्वरूपेण व्यवस्थितिरित्यादिवाक्यरान्तिकस्य स्वरूपावस्थानस्यैव मोक्षत्वादिति दिक्॥ तदेवं चित्तभूमिषु लक्ष्यालयविवेकपूर्वक प्रसिद्धस्य योगलक्षणस्यातिव्याप्ति प्रदर्श्य योगलक्षणाकाका उपपादिता, अतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org