________________
योगवार्तिकम् ।
३०३ प्रत्युदितेति । विभज्यवचनीयप्रश्नं लौकिकमपि दर्शयति । तथा मनोति । उक्तप्रश्नस्तु यथाश्रुत एकान्तत एवावचनीय इत्याह । अयं त्विति । अयमित्युक्तं विशिष्याह । संसार इति । अवचनीयत्वमेवोपपादयति । कुशलस्य. त्यादिना दोषइत्यन्तेन । कुशलस्य कुशले गुणकृतस्य संसारक्रमस्य समाप्तिरस्ति नेतरस्मिनित्यतो गुणसृष्टिप्रलयप्रवाहोच्छेदानुच्छेदान्यतरावधारणे दोषः । आदो बाधोन्त्ये कस्यापि मुक्तिनास्तीति शिष्यमोहापत्तिरित्यर्थः । अस्यापि प्रश्नस्य विकल्प्योत्तरं देयमित्याह । तस्मादिति । तस्मादुत्तरदानार्थमादौ विकल्पेन व्याख्येयोयं प्रश्न इत्यर्थः । तदाथा । र्याद च गुणानां सृष्टादयुच्छेदः पृच्छ्यते तदा नास्तीत्येव वक्तव्यम् ।
अनादिर्भगवान् कालो नान्तास्य द्विज विद्यते । अव्यच्छिनास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥
इत्यादिवाक्यशतेभ्यः सृष्टिप्रवाहस्यानादित्ववदनन्तत्त्वस्यापि सिद्धेः शुष्कतर्कस्याप्रयोजकत्वात् । अन्यथा संसारहेत्वदृष्टस्य सर्वस्यैव सादित्वात्संसारस्यानादित्वमपि तर्कविरोधेन न सिध्येत्।भूयश्चान्ते विश्वमायानिवृत्तिश्चेति श्रुतिश्च मायाख्यप्रकृतेः प्रलये व्यापारोपरमाख्यां निवत्तिमेव वदति। एतेन सर्वमुक्तिरप्रामाणिकीति सिद्धम् । यदि पुरुषस्य संसारोच्छेदः पृच्छते तदा कुशलस्यास्ति नेतरस्येति प्रश्नवाक्यं विकल्य्य प्रतिवचनं संभवतीति उत्तरसूत्रमवतारयति । गुणाधिकारोति । गुणाधिकारः परिणामविशेषस्तत्क्रमपरिसमाना कैवल्यमिति । ततः कृतार्थानामित्या. दिसत्रेण तात्पर्यतः प्रोक्तं तस्य कैवल्यस्य स्वरूपमवधार्यतइत्यर्थः । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कृतकर्त्तव्यतया पुरुषार्थशून्यानां गुणानां पुरुषोपकरणानां लिङ्गशरीरात्मकानां प्रतिप्रसवः स्वकारणे अत्यन्तविलयः स बुद्धः कैवल्यम एतदेव च प्रधानस्यापि ज्ञानिपुरुषं प्रति कैवल्यमुच्यते तेन पुरुषेण सह पुनरसंयोगात या तु धर्मधर्म्यभेदाचितिशक्तिः स्वरूपिणी स्वरूपप्रतिष्ठा बुद्धिसत्त्वोपाधिकरूपशून्यतारूपा जपापाये स्फटिकस्य रूपप्रतिष्ठावत् सा पुरुषस्य कैवमित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org