________________
३०२
योगवार्तिकम् ।
स्येति । गुणपुरुषयोरित्यर्थः । पूर्वसूत्रे परिणामशब्देन व्यावत्यं स्वरूपास्तिताक्रमं दर्शयितुं क्रमसामान्यं विभजते । तत्रेति । बुद्ध्यादिषु महदादिषु लब्धपर्यवसानो विनाशित्वादित्यर्थः । गुणेष्विति । अत्रापि परिणा मापरान्तनिया इत्यन्वेति । परिणामस्य क्रमं द्विधा व्याख्याय तृतीयं स्वरूपास्तितायाः क्रममसंकीर्णे । दाहरणेनाह । कूटस्थेति । बद्धानां चित्ताविवेकेन कदा चित्परिणामाध्यासापि स्यादित्याशयेन स्वरूपमात्रप्रतिष्ठे त्युक्तं तस्यैव स्वरूपाख्यानं मुक्तपुरुषेष्विति । स्वरूपास्तिता च तत्तत्क्षणमात्रं तत्क्रमश्च पुरुषेष्वप्यस्ति । इदानीं स्थित्वा पश्चात्स्यास्यतीति व्यवहारात् । अन्यथा सर्वकालसंबन्धरूपनित्यतानुपपत्तेश्चेत्यतस्तत्राप्यलब्धपर्यवसान इति, क्रम इति शेषः । नन्वेवमात्मनोपि अस्तिताक्रम स्वीकारे पडाव विकारशून्यत्वसिद्धान्तविरोध इत्याशङ्कां परिहरति । शब्दपृष्ठेनेति । स च क्रमोस्त्याख्यक्रियामादायैव शब्दपृष्ठेन शब्दानुसारिणा व्यवहत्री कल्पितो भवति । न तु जन्मोत्तरकालीनमस्तिता परिणाममादायेत्यर्थः । तथा चास्तित्वाख्यक्रियैव पडावविकारान्तर्गता पुरुषे निषिद्धेत्याशयः । सा च क्रियारूपिण्य स्तिता वृद्धिहेत्ववयवोपचयरूपेति विभागः । गुणेष्वलब्धपर्यवसानः परिणाम इति श्रुत्वाक्षिपति । अथेति । अस्य संसारस्य जन्मादिपरिमाणजातस्य स्थित्या गत्या च गुणेषु वर्त्तमानस्य सृष्टिप्रलयप्रवाहेणावस्थितस्य क्रमसमाप्तिरस्ति न वा । आये अलब्धपर्यवसानोक्तिविरोधः । अन्त्ये परिणामक्रम समाप्तिर्गुणानामिति पूर्वसूत्र विरोधः, तथा भूय. श्वान्ते विश्वमायानिवृत्तिरितिश्रुतिविरोधश्चेति । पूर्वसूत्रे कृतार्थपुरुषं प्रत्येष परिणामक्रमसमाप्तिर्गुणानामुक्ता न तु सामान्यत इत्याशयेन समाधत्ते । प्रवचनीयमेतदिति । प्रत्युत्तरानमेतद्वचनमित्यर्थः । उक्तप्रश्नस्योत्तरा नर्हत्वं प्रतिपादयितुम् आदावुत्तरार्ह द्विविधप्रश्नं दशति । अस्ति प्रश्न इति । सर्वे जातो मरिष्यतीति एकान्तवचनीयो ऽविभज्यवचनीयः प्रश्नः । अस्य च अम्भो इति प्रतिवचनं सत्यं भो इत्यर्थः । ओ भो इति पाठस्तु समीचीनः । अविभज्यवचनीयं प्रश्नं प्रदर्श्य विभज्यवचनीयं प्रश्नान्तरं प्रदर्शयति । अथ सर्वो मृत्वा जनिष्यतीति विभागेन वचनं प्रत्युत्तरं दर्शयति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org