________________
योगवार्तिकम् ।
३०१ क्रमशब्दाल्लभ्यते क्रमशब्दस्य पै. पर्यमात्रवाचित्वादित्याशयेन क्रमश. ब्दार्थ पृच्छति । अथेति । अयमेतत्सत्रीयः । अत्र प्रत्युत्तरं सूत्रम् । क्षणप्रतियोगी परिणामापरान्तनि ग्राह्यः क्रमः ॥ ३३ ॥
तणप्रतियोगी क्षणस्यावसरस्य विरोधी क्षणेनाप्यनरित इति यावत् । एवंरूपोत्र क्रमो विक्षितो न तु पौर्वापर्यमात्रमिति विशेष्यदलार्थः । परिणामश्च पूर्वधर्मापाये धर्मान्तरोत्पत्तिरित्युक्तमेव, ईदृशे च क्रमे प्रमाणप्रदर्शनपरं परिणामापरान्तनियाह्म इति विशेषणम् । भाष्यकारस्तु तणप्रतियोगीत्यस्य पर्यवसितमर्थमाह । तणानन्तर्यात्मेति । क्रम इत्युत्त. रेणान्वयः बणानन्तर्यात्मा तणानन्तर्यधर्मकः । आनन्तयं चाव्यवधानं क्रमस्तु पूर्वापरीभावः। तथा च तणाव्यवहितपरिणामधारा पर्वसूत्रे परिणामक्रमशब्दार्थः । अनच्छिन्नधारायाः प्रमाणप्रदर्शक सूत्रावयवं व्याचष्टे । परिणामस्येति । पूर्वान्तापेक्षया वस्त्रादिरूपस्य परिणामस्यापरान्तेन चरमा. वस्थया अनच्छित्रपरिणामधारा अनुमीयतइत्यर्थः । अत्र युक्तिमाह । नहीति । अननुभूतो ऽप्राप्तो यथोक्तक्रमो यैरेवंभूताः क्षणा यस्याः साऽननुभूतक्रमक्षणा पुराणता, तथा च वस्त्र स्यान्तकाले दृश्यमाना पुराणता नाननुभूतक्रमक्षणा संभवतीत्यर्थः । अतः पुराणतायाः सूत्मतमसूक्ष्मतरसूत्मस्यू. लादिरूपैः परिणामक्षणेष्वविरलः क्रमोनुमीयतइति । नन्वपरान्तेनानित्येष्वेव क्रमः सिद्धो न तु प्रधानेपि तस्य चरमावस्थाया अभावादतो गुणानां परिणामक्रमे किं प्रमाणं येन तत्समाप्तिः पूर्वसूत्रोक्ता घटेत तत्राह । नित्येषु चेति । नित्येषु स्वतोपरान्ताभावेपि विकाराणामपरान्तैरेव प्रतिक्षणपरिणा. मो दृष्टानुमित इत्यर्थः । धर्मविक्रियैवैषा धर्मद्वारा प्रपञ्च्यतइति प्रागुक्तत्वादिति भावः । ननु परिणामक्रमाङ्गीकारे नित्यत्वहानिरित्याशङ्काया. माह । द्वयी चेति । तथा च परिणामित्वेन कूटनित्यतैव विरुध्ते न नित्यतासामाामत्याशयः । नित्यस्य सामान्यलक्षणमाह । यस्मिनिति। तत्त्वं न विहन्यते स्वरूपं नातीतं भवति अत्र चातीतताशून्यत्वमानं नित्यस्य सामान्यलक्षमिति बोध्यम् । तच्चोभयसाधारणमित्याह । उभय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org