________________
३००
योगवार्तिकम् ।
मक्रमः समाप्यते कृतार्थपुरुषाणां भोगौयिकः परिणामः पुनर्न भवती त्यर्थः । क्रमश्चाविरलाधारेत्युत्तरसूत्रेण व्याख्यास्यते । तत्र इतिपदं व्याचष्टे । तस्य धर्ममेघस्योदयादिति । कृतार्थानामिति । पुरुषाणामिति शेषः । तथा च कृतार्थपुरुषस्वामिको गुणानां परिणामक्रमः समाप्यतइत्य. र्थः । न तु गुणानामखिनस्य परिणामक्रमस्य समापिरत्रोक्ता कृतार्थ प्रति. नष्टमण्यनष्टमित्युत्तरसूत्रादिति । समाप्ती हेतुमाह । नहीति । नहि सत्त्वादयो गुणाः कृतभोगापवा अत एव समाप्तकमाः तं पुरुषं प्रति तणमण्यवस्थातुं समर्थाः स्थितिहेतुपुरुषार्थाभावादिति । यदि च सूत्रभाध्ययोर्गुणशब्देनात्र बुद्धवादय एव पुरुषोपकरणान्युच्यन्ते तदा यथाश्रुतमेव व्याख्येयम् । अत्राचेतनानां चेतनार्थतया चैतन्याधीनसत्ता वेदान्तिभिरुच्यमाना सिद्वेति स्मर्त्तव्यम् । इयमपि तृतीया मुक्तिः पशिखाचार्य. रुक्ता 'कर्मक्षयात* तृतीयस्नु व्याख्यातं मोतलक्षणमिति । अत एव तत्त्वसमाससूत्रं त्रिविधो मोक्ष' इति । इदमत्रावधेयम् । यदेताभ्यां सूत्राभ्यां ज्ञानस्यानन्त्यात्सार्वज्ञाख्यात् मोक्ष उच्यते इदं मुख्यकल्पाभिप्रायेणोक्तं वैराग्यादेव सुखेन मोक्षसिद्धः, न तु सार्वज्ञादिकं विना मोक्ष न भवतीत्याशयेन । यतः सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति सूत्रे भाष्यकृता ईश्वरस्यानीश्वरस्य प्राप्तविवेकज्ञानस्येतरस्य वेत्यनेनासर्वजस्यापि अभि. माननिवृत्तिमात्रादेव मोक्ष उक्त इति । तथा चोक्तं 'विवेकख्यातिरविप्नवा हानोपाय' इति । 'सति मूले दिपाको जात्यायु(गा' इति च। संसार बीजं हि अनात्मन्यात्मरूपाऽविया रागद्वेषधर्माधर्मविपाकादिहेतुत्वात सा चेद्विवेकख्यात्या नाशिता तर्हि तत एव संसार.च्छेदे सार्वजादापेक्षा नास्तीति । तथा च विष्णुपुराण
अनात्मन्यात्मबुद्धिया अर्थ स्वमिति या मतिः । अविदयातरुसंसूचिबीजमेट्टिधा स्थितम् ॥
इति । ननु परिणामसमाप्तिरिति वक्तव्ये क्रमशब्दः परिणामानां प्रतिक्षणमुत्पादविनाशकथनेन वैराग्योत्पादनाय प्रयुक्तः । स चायमर्थः कथं
* कक्रक्षयादिति पा० २ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org