________________
योगवार्तिकम् ।
२८९
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥ ३१ ॥
*
तदा तस्यां जीवन्मुक्तावस्थायां शक्रर्म। ज्ञानावर कमलयोरपगमेन हेतुना ज्ञानस्य सत्त्वप्रकाशस्यानन्त्यादिविभुत्वात् ज्ञेयं प्रकाश्यमल्पं तदपेक्षया भवतीत्यर्थः । यदि हि पञ्चविंशतितत्त्वातिरिक्तमन्यदपि वस्तु तिष्ठेत् तदा तदपि प्रकाश्येत ज्ञेयस्यैव तु अल्पतया अन्यत्र प्रका श्यते न तु सत्त्वस्याल्पतयेति भावः । तद्वैताचष्टे । सर्वैरिति । अनन्तं स्वभावतो व्यापकं ज्ञानं सत्त्वमिति भूतसत्त्वव्यावर्त्तनायेोक्तं प्रवर्त्तितमिति अस्य विवरणम् सुघाटितमिति । शेषं भाष्यं सुगमम् । अत्र तमोभिभवनानन्तरमेव वृत्त्युत्पत्तिवचनाद्वत्तेस्तमो नाशकत्वमाधुनिकवेदान्तिनामपसि द्वान्त इति स्मर्तव्यम् । एतादृशं सर्वज्ञत्वं लोके ऽतीवाश्चर्यमन्धर्माणवेधादिवदिति बौद्धोपहासमुखेन दर्शयति । यत्रेदमिति । यत्र क्षुद्राणामपि जीवानां योगबलादेतादृशसार्वजे बौद्वैरिदं दृष्टान्तजातमसंभवदर्शनायोक्तमुपहसद्भिरित्यर्थः । किं तत् तदाह । अन्ध इत्यादि । अविध्यत्सच्छिद्रमकरोत् तं मणिमङ्गुलिहीनो ऽवावयत् यथितवान् तं मणिं यीवाशून्यः प्रत्यमुच्यत कण्ठाभरणमकरोत् तं कण्ठाभरणं जिह्वाशून्यस्तुतवानितीत्यर्थः । दृष्टान्तचतुष्टयस्यायमाशयः । अनादर्द्याविद्यामूढचित्तः सांख्यादाभिमतसूक्ष्मा ये नामवधारणरूपं वेधनमेवादा शक्यं ततश्च तस्य सूक्ष्मार्थस्याविरलवृत्तिसत्ता च सूत्रेण यथनमप्यशक्यम् । ततोपि सर्वया विवेकख्याfarastra ततरच तादृशचित्तस्य परिपूर्णज्ञानत्वेन स्तुतिरप्यशक्येति । आस्तिकेतु श्रुतिस्मृतिप्रामा एयेनैतत्सवै श्रद्धेयमिति भावः । यथोक्तसार्वज्ञात् परवैराग्येोदयेनासंप्रज्ञातपरंपराजन्यं प्रारब्ध भोगा समाप्तिजन्यं वा तृतीयं मुख्यमोक्षमाह ।
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ ततो धर्ममेघेोदयात् क्लेशकर्मनिवृत्त्या ज्ञानस्यानन्त्ये सति परवेशग्येण पुरुषार्थसमाप्त्या कृतार्थान् पुरुषान् प्रति गुणानां सत्त्वादीनां परिणा
जीवन्मुक्त्यवस्थायामिति पा० २ ।
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org