________________
२९८
योगवार्तिकम् । तचिन्त्यतइति । अधिकारसमाप्तो चित्तेन सहैव तेषां नाशात्तत्साध. नचिन्ता नास्तीत्यर्थः । आशु ममतणां त्वसंप्रज्ञातेनापि तत्राश्चिन्तित रति भावः । उक्तस्य संस्कारहानस्य प्रकारमाह सत्रद्वयन । प्रसंख्यानेप्यकसीदस्य सर्वथा विवेकख्यातेधर्ममेघः
समाधिः ॥ २८ ॥ प्रसंख्यानं विवेकसाक्षात्कारः तत्रापि यो ऽकुसीदः कृषीवलयत सर्वभावाधिष्ठातृत्वादिरूपां सिद्धिं न प्रार्थयते तस्य योगविघ्नाभावेन सर्वथा निरन्तरं विवेकख्यात्युदयाद् धर्ममेघनाम्नी संप्रजातयोगस्य पराकाष्ठा भवतीत्यर्थः । तदेतद्वयाचष्टे । यति । तत्रापि तत्फलेपि, सर्वथाशब्दार्थमाह । संस्कारेति। संस्काररूपस्य बीजस्य क्रमेण तयादाहाद्वीयमानादेतोः प्रत्ययान्तराणि अविद्यान्तराणि* यदा न जायन्ते तदा धर्ममेघसमाधिरि. त्यर्थः । क्लेशकादीनां निःशेषेणान्मलकं धर्म मेहति वर्षतीति धर्ममेघः । अस्याः समाधेर्धर्मद्वारकफलं द्वितीयमोतमाह ।
तत: क्लेशकर्मनित्तिः ॥ ३० ॥
निवृत्तिदाहसमाप्तिः। व्याचष्टे । तल्लाभादिति। समूलकापमिति। मूलं शसंस्कारास्तैः सह क्लेशा अभिनिवेशातिरिक्ताश्छिना भवन्ति अत एव कर्माशयाश्च प्रारब्धातिरिक्ताः क्लेशाख्यमलेन सह हताः स्युरतो न पुनरुत्पदान्तइत्यर्थः । ननु दुःखात्यनिवृत्तिरेव मोक्षो जीवतश्चावश्यं दुःखम् । 'न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति' इति श्रुतेः, तत्कथं जीवक्तिरित्याशयेन पृच्छति। कस्मादिति । उत्तरं, यस्मादिति । तथा च दुःखनिदानात्यन्तोच्छेदस्य गौणमुक्तित्वमिति भावः । अत्र प्रमाणमनुपलब्धिमाह । नहीति । तदुक्तं गौतमाचार्यैः 'वीतरागजमादर्शनादिति । अयमपि मोक्षः पञ्चशिगचार्यैरुतो द्वितीयो रागक्षयादिति । अत्र जीव. न्मुक्तस्य सवासनलेशात्यन्तदाहनिर्णयात आधुनिकवेदान्तिनामवियालेशस्वीकारो ऽविद्यामलक एवेति स्मर्त्तव्यम् । इदानी मुक्तस्य जीवन्मतस्य परममुक्तिप्रकारमाह सूत्रद्वयेन । ___* अविट्यारूपाणि इति पा०२। + संक्षयादिति पा०३।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org