________________
योगवार्तिकम् ।
२९७ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥
व्याचष्टे । विवेति । विवेकप्रत्ययनिम्नस्येत्यस्य विवरणं सत्त्वे. त्यादि । सत्त्वपुरुषान्यतामात्रेण प्रवहणशीलस्येत्यर्थः । तच्छिद्रेषु स्थानेषु अविदयारूपाणां प्रत्ययानामाकारा अस्मीत्यायाश्च प्रदर्शिताः। अस्मीति । देवमनुष्यादिरूपोस्मीत्यर्थः । केवलास्मितायाः संप्रज्ञातयोगेपि सत्त्वात् दीयमाणेभ्यो बीजेभ्यः क्षीयमाणबीजेभ्यः । एतस्य विशेष्यं पूर्व संस्कारेभ्य इति । ननु जाने जातेपि चेत् पूर्वसंस्कारवशावत्थानदशायां कदा चिदवियोदयः कथं तर्हि संप्रजातप्रवाहेणापि अविद्यानित्तिः स्यात्तत्राह ।
हानमेषां क्लेशवदुक्तम् ॥ २८ ॥
एषां संस्काराणां हानं दाहः स्वकार्यासामयं क्लेशानामिवोक्तं पूर्वाचार्यरित्यर्थः। 'ध्यानहेयास्तवृत्तयः' 'ते प्रतिप्रसवहेयाः सूक्ष्मा' इति सू. त्राभ्यां यथा स्थलसूत्मक्लेशानां तत्त्वज्ञानचित्तलयाभ्यां दाहनाशी प्रोक्ता तथा तत्संस्काराणामपीति फलितार्थः । एतदेव व्याचष्टे । यथेति । यथा संप्रज्ञातयोगिनो व्युत्थानदशायां पूर्वसंस्कारजाः केशा अविद्यादिवृत्तयो दग्धबीजतुल्याः सत्यो न संस्कारं जनन्ति तथा पूर्वसंस्कारा अपि संप्र. जातपरंपराननितेन निष्ठारूपेण ज्ञानाग्निना दग्धबोजतुल्याः सन्तः प्रत्ययं न प्रसवतत्यर्थः । पूर्वसंस्कारः प्राचीनः क्लेशसंस्कारः ज्ञानकाले ज्ञानसं. स्कारेण प्रतिबन्धात्संस्कारो नोत्पातइत्याशयेन पूर्वपदम् । अत्र जाननाशोपि क्लेशवदुपतित इति । नन्वेकदा चेदृष्टं मम जन्म मरणं दुःखादिकं नास्तीति तर्हि कदा चिदन्तरान्तरा मोहेपि तद्धानार्थ प्रवृत्तिाप. पदयते मोहस्यापि चित्तधर्मतायाः पूर्व निश्चितत्वादिति चेत्र । चित्तस्य मोहसत्त्वे पुनश्चित्तस्य भवदुःखोत्पत्त्या पुरुषस्य दुःखभोगः स्यादित्याशयेनैव जानिभिरपि चित्तस्यात्यन्ततो मोहनिवृत्त्यर्थ यतनात । भोगश्च चि. मात्रस्यैवेत्यसकदादिमिर्मात । ननु संस्कारत्वाविशेषात्तत्त्वज्ञानसंस्कारा अपि किं संप्रजातनिष्ठया नश्यन्ति, नेत्याह । ज्ञानसंस्कारास्त्विति । अविरुद्धत्वादिति शेषः । हि कथं तेषां नाशः स्यादिति, तत्राह । इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org