________________
योगवार्तिकम् ।
परस्परवियोगो हि उपाध्युपाधिमतोरुभयेोरेव केवलता एकाकिता भवति ते चोभे एव दुःखभोगनिवृत्त्याख्यपुरुषार्थसाधने भवत इति द्वे एव कैवल्ये लक्षिते तयोश्चादयं कैवल्यं पुरुषस्यापचरितमित्युक्तं सांख्यकारिकायाम् । तस्मात्र बध्यतेद्वा न मुच्यते नापि संसरति पुरुषः । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥
३०४
इति । ननु स्वरूपप्रतिष्ठारूपं कैवल्यं दुःखभोगात्यन्तनिवृत्तिरूपो वा पुरुषार्थः पुरुषस्य तत्र निराकृतः मात्तस्यान्यमात्रनिष्ठत्वे पुरुषार्थत्वे मोक्षार्थं प्रवृत्त्यनुपपत्तेः पुरुषार्थं हि करणानां प्रवृत्तिरिति । इतिशब्दः शास्त्रसमाप्तिसूचनार्थः । भाष्ये कार्यकारणात्मनामिति कार्यकारणभावापत्रानां महदादिसूक्ष्मभूतपर्यन्तानां लिङ्गशरीरघटकानामित्यर्थः न तु कार्यमात्रस्थलशरीरं तत्सत्त्वेपि केवल्यादयादिति । ननु स्वस्य स्वप्रतिष्ठत्वानुपपत्त्या कथं स्वप्रतिष्ठत्वं तत्राह । स्वरूपेति । पुरुषस्य पुनर्बुद्धिसत्त्वासंबन्धात् केवला चितिशक्तिरेव स्वरूपप्रतिष्ठेत्यर्थः । तस्या इति । स्वरूपप्रतिष्ठायां सदैवावस्थानं पुनरप्रच्यवः कैवल्यं द्वितीयमिति शेषः ॥
योगयन्यसहस्राणां सर्वोपनिषदां तथा ।
सतां च यत्र तात्पर्यं साथै व्यासेन भाषितः ॥ व्याख्यातश्च यथाशक्ति निर्मत्सरधिया मया । एतेन प्रीयतामीशा य आत्मा सर्वदेहिनाम् ॥
इति श्रीविज्ञानभितविरचिते पातज्जलभाष्यवार्त्तिके कैवल्यपाद
श्चतुर्थः ॥ ४ ॥
Jain Education International
॥ समाप्तं चेदं दर्शनम् ॥
॥ श्रीविश्वनाथो विजयतेतराम् ॥
eG
For Personal & Private Use Only
www.jainelibrary.org