________________
२९४
योगवार्तिकम् ।
मिति द्रष्टव्यम् । विवेकज्ञानस्यैव सम्यग्ज्ञानतया मोक्ष हेतुत्ववचनात् । परमात्मप्रकरणं तु जीवादपि विवेकेन परमात्मन एकस्यैवात्मत्वे तात्पर्यमिति मन्तव्यम् । द्वितीयपादे विवेकख्यातिरविप्लवा हानोपाय इत्येवोक्तम् । अत्र तु विवेकज्ञानस्यैव सम्यग्ज्ञानत्वोपपादनेन मातहेतुत्वं प्रभावितम् । विवे कस्वरूपं च परीक्ष्यतइति विवेकः । चित्तादात्म्यविवेके हेत्वन्तरप्रदर्शकतया सूत्रमवतारयति । इतश्चेति । इतश्च वित्तातिरिक्तः । पुरुष इति शेषः । तदसंख्येयवासनाभिश्चिचमपि परार्थं संहत्यकारित्वात् ॥ २१४॥
यदुक्तं चित्तस्य सर्वात्मकत्वाङ्गीकारे असंख्यवासनावशात् स्वत एव चित्तस्यापि परिणामास्तु किं पुरुषेणेति । तत्र । यतस्तच्चित्तमसंख्येयवासनाभिश्चित्रितमपि परार्थं परस्यान्यस्य भोगापवर्गीयैव विना तौ न स्यातुं परिणामितुं वा क्षमते संहत्यकारिपदार्थानां लोके परमात्रार्थत्वदर्शनादित्यर्थः । तथा च पुरुषार्थसमाप्त चित्तविलयेन मोक्षोपपत्तिरित्यत्रापि सूत्रतात्पर्यम् | सूत्रं व्याचष्टे । तदेतदिति । भोगापवर्गीथे सुखादिसाक्षात्कारार्थम् । संहत्यकारित्वात् इतरसाहाय्येनार्थक्रियाकारित्वात्, एहवदिति । गृहं हि शयनादिकार्यमास्तरण शरीरादिसाहाय्येनैव करोति पुरुषस्तु नित्यचैतन्यरूपतया चैतन्यार्थं नान्यमपेक्षते अन्या चार्यक्रिया पुरुषस्य नास्तीति स न संहत्यकारीत्याशयः । यत्तु संघातपारार्थ्यादिति सांख्ये प्रोक्तम् । तत्र संहननमारम्भकं संयोगो विवक्षितः स चावयवावयव्यभेदात् शय्यासनगृहादिषु सत्त्वादिषु चास्ति न तु पुरुषइति । ननु चित्तं संहत्यापि करिष्यति स्वार्थमपि भविष्यति कः खलु विपत्तबाधकस्तर्क इत्याकाङ्गायामाह । संहत्यकारिणेति । न सुखचित्तमिति । सुखचित्तं भोगचित्तं न सुखार्थं न चित्तस्य भोगार्थं तथा तत्त्वज्ञानचित्तमपवर्गचित्तं न चित्तस्यापवर्गार्थं चित्तस्यभो गापवर्गयेोरपि कार्यतया सार्थकत्वनियमेनानत्रस्याप्रसङ्गात् । यत्कार्यं सत्सार्थकमिति हि सर्वसंमतम् । अतश्चित्तस्यैतदुभयमपि परार्थमित्यर्थः । पुरुषस्य च भोगापवर्गे स्वरूपचैतन्यरूपतया न कार्याविति नानवस्था
* चिसमिति पाठो बहुसंमतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org