________________
योगवार्तिकम् ।
२९५
पुरुषार्थत्वादिनामिति भावः । पुरुषस्य भोगो हि सुखादिसाचात्कारः । अपवर्गश्च विवेकख्यातिसाक्षात्कारो वा स्वरूपावस्यानो वा सर्वथैव चैतन्यमात्रा एव अपरिणामित्वात्रिर्द्धर्मत्वाच्चेति । ननु परार्थतामात्रेण न पुरुषसिद्धिर्विनाशादीनामपि परार्थत्वसंभवात् विनाशार्थमेवेात्पत्तेः परैरभ्युपगमादित्याशङ्कायामाह । यश्चेति । भोगापवर्गीर्थवानेवात्र परः साध्ये प्रविष्टो ऽतेो न सामान्येन येन केन चित्परेण सिद्धसाधनमयन्तरं चेत्यर्थः । स्वोत्तरोत्पन्नक्षणिक चित्तस्य भोगार्यकतया पराभिप्रेतं सिद्धसाधनमपाकरोति । यत्तु किं चिदिति । स्वरूपेण श्रात्मरूपेण भोक्तृतयेति यावत् । यस्त्विति । यस्त्वसौ विशेषः पुरुषाख्यः परः स कूटस्यनित्यत्वात् न संहत्यकारीति न तस्य परार्थत्वापत्त्यानवस्थितिरित्यर्थः । तदेवं बुद्धिपुरुषविषयाणां विवेकं प्रदर्श्य एतज्ज्ञानादादां मोक्षमादौ प्रतिपादयति ।
।
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५ ॥
मातृमानमेयात्मकस्याखिलप्रपञ्चस्य तप्तायः पिण्डवदेकीभावापचस्य यथेोक्तप्रकारैरन्योन्यं विशेषदर्शिना विवेकसाक्षात्कारिणश्चित्तस्यात्मभावे भावना स्वसत्ताजिज्ञासा कोहमासमित्यादिरूपा भाष्ये व्याख्येया । तस्या भयशोकप्रवृत्तिनिवृत्त्याद्यनर्थहेतोर्निवृत्तिराद्यो मोतो भवतीत्यर्थः । स्वर्गनरकमोत्तादिभिर्हि विचित्ररूपता चित्तस्येव भवति न तु सदैकरूपचिन्मात्रस्य न ममेत्यवधारणे सति नैवात्मभावचित्ततो देतीति भावः । तथा च श्रुतिः । एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरव' मितीत्यादिः । तदेतदुक्तं पञ्चशिखाचार्यै ' रायस्तु मोक्षो ज्ञानेनेति । अत्रादौ भाष्यकार श्रात्मभावभावनामेव सकारणां प्रतिपादयति । यथेत्यादिना । तत्रापीति । पुरुष इति शेषः । विशेषदर्शनबीजमिति । श्रात्मभावजिज्ञासाद्वारेति शेषः । इत्यनुमीयतइति । विविदिर्षान्त यज्ञेनेत्यादिश्रुतेः । पापक्षयाद् शुद्धमतिर्बह्मेति ज्ञानमुत्तममिति स्मृतेश्चेति शेषः । तस्य यथेोक्तकर्मवतः स्वाभाविकी ऐहिकसाधननिरपेक्षा, तथा च यथोक्तं कर्म आत्मभावनायाः कारणम् । तत्र च नैहिकत्वनि
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org