________________
योगवार्तिकम् ।
૧૫
बिलेन च सुवर्ण सामान्यस्य सर्वविकारानुगतस्य सिद्धिः । तत्सामान्यं चावयविरूप धर्मेति । वैशेषिकास्तु सुवर्णस्यान्यथात्वे अवयवसंयेोगनाशात् पूर्व सुवर्ण व्यक्तिर्नश्यत्येव प्रत्यभिज्ञा तु जातिविषयेति । तव । एवं सति प्रतितमवयवोपचयापचयाभ्यामवयवसंयोगविभागस्यावश्यकत्वेन शरीरादाखिलवस्तूनां क्षणिकत्वापत्तेर्ब्रह्मणाप्यपरिहार्यत्वात् । जात्यैव सर्वत्र प्रत्यभिज्ञेोपपत्ते प्रत्यभिज्ञया घटादिस्यैर्यमितिस्वसिद्धान्तविरोधापत्तेश्च । तस्मादवयवसंयेोगनाशो न द्रव्यनाशहेतुः किं तु बझादौ तृणारणिमण्यादिवदव्यवस्थितमेव फलबलात्कारणं कल्पनीयम् । अथ वा विजातीयोऽव
I
विभाग विशेष इति । स्वरूपान्यथात्ववादिबैाद्वैर्धर्मपरिणामे प्रोक्तं दूषणं निराकर्तुमुत्थापयति । अपर आहेति । धर्मी धर्मेभ्योतिरिक्तो न भवति श्रत्यन्ताभिच इत्यर्थः । अत्र हेतुः पूर्वतत्त्वानतिक्रमात् । पूर्वतत्त्वस्य धर्मिणानतिक्रमापत्तेः कौटस्थ्यापत्तेरिति यावत् । एतदेव विवृणोति । पूर्वापरेति । धर्मी व धर्मेषु स्यात्तर्हि पूर्वापर सकलावस्थाभेदेषु अनुगततया प्रतीतायवस्थायामपि सत्त्वप्रसङ्गात कोटस्थ्येनैव तिष्ठेत् चितिशक्तिवत् नित्यत्वकूटस्य त्वयेोरेकार्थत्वात् तच्च तवाप्यनिष्टमित्यर्थः । परिहरति । यमदोष इति । एकान्ततेति । एकान्तनित्यत्वानभ्युपगमादित्यर्थः । एकान्तेन सर्वथा स्वरूपता धर्मतश्च नित्यत्वमेव कौटस्थ्यमस्माभिरण्यपेयते । तच्च चितिशक्तेरेव न तु धर्मरूपेणानित्यस्य धर्मिण इत्यर्थः । विकारव्यावृसं प्रकृतेर्नित्यत्वं सतोतीतानागतावस्याशून्यत्वम् इति स्वरूपतो धर्मतश्च नित्यानित्योभयरूपत्वं प्रपञ्चस्येति प्रतिपादयति । तदेतदिति । तदेतत्रैलोक्यं कार्यकारणात्मकं चतुर्विंशतितत्त्वानि सका fruit यावत् यथायोग्यं धर्मरूपेण स्वतश्च व्यक्तेर्वर्त्तमानावस्था । पैति नित्यत्वप्रतिषेधात् । 'नैवेह किंचनायप्रासीत्' 'असदा इदमयग्रासी' दि. त्यादिश्रुतिभिर्व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिः संप्रतीयत इत्यादिस्मृतिभिः यत्सावयवं तदनित्यं घटादिवदित्यनुमानेनेत्यर्थः । नन्वेवमत्यन्ता' च्छेद एवास्तु तत्राह । अपेतमिति । अपेतमतीतमपि प्रकृत्यादि धर्मरूपेणातीतरूपेण चास्ति विनाशप्रतिषेधात् प्रत्यन्ताच्छेदप्रतिषेधात् तद्वैक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org